SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ स्वीयत इति- स्वीयतः स्वकीयात् भावतो वीतरागपरिणामात् भुवि पृथिव्यां शिवं श्रेयो मोक्षो वा भवेत्। विभावतः विरुद्धो भावो विभावस्तस्मात् सरागपरिणामात् भववृद्धिः संसारवृद्धिः भवेत्। अतोऽस्मात् कारणात् विभौ प्रभौ जिन इति यावत् । विरतो विशेषेण रतो लीनो भव । अथवा विभावतो विभावपरिणामात् विरतो निवृत्तो भव। इति हि विवेकविभावतः विवेकस्य ज्ञानस्य विभा दीप्ति विद्यते यस्य तस्य केवलज्ञानिनो वाग् वाणी। अस्तीति शेषः ।। ७९।। अर्थ- 'स्वकीय स्वभाव से पृथिवी पर शिव - कल्याण अथवा मोक्ष होता है और विभाव-रागादि परिणाम से संसार की वृद्धि होती है। अतः हे श्रमण! तू वीतराग सर्वज्ञ प्रभु में विलीन हो जा' ऐसी विवेकविभावान्- केवलज्ञान की प्रभा से युक्त जिनेन्द्र की वाणी है।।७९।। [८०] चरणमुकुटः शिरसि त आभवतो न सुदृगसितमणिरसितः । धृतोऽतो यो न रसित-गोचरः कोऽसौ शुचिरसितः ।। आभवतः ते शिरसि सुदृगसित-मणिरसितः चरणमुकुटः न घृतः । अतः यः रसितगोचरः न, असौ शुचिः कः असितः ? चरणेति-आभवतः अनादिसंसारात अद्यावधिरिति यावत।ते भवतः सुदृगसितमणिरसितः सुदृक् सम्यग्दर्शनमेव असितमणिर्नीलमणिस्तेन रसितः खचितः 'स्वर्णादिखचिते तु स्यात्विष्वेव रसितं मतं' इति विश्वलोचनः ।अथवा रलोरभेदात् लसितः शोभितः।चरणमुकुटः पादमौलिः शिरसि मूनि स्वस्येति शेषः।न धृतो नो स्थापितः। अतोऽस्मात्कारणात् यो रसितगोचरो न शब्दगोचरो न, असौ सः। शुचिरुज्ज्वलः क आत्मा असितोऽज्ञातो वर्तते ममेति यावत् । भवच्चरणसरोजवन्दनप्रभावादेव चारित्रं भवति चारित्राच्चात्मोपलब्धिर्भवतीति भावः ।।८।। ___अर्थ- हे भगवन्! मैंने अनादिसंसार से आज तक सम्यक्त्वरूपी नीलमणि से खचित आपका चारित्ररूपी मुकुट अपने मस्तक पर नहीं चढ़ाया, इसीलिये जो शब्द का विषय नहीं वह निर्मल आत्मा मेरे लिये अज्ञात रही ।।८०।। [८१] यस्त्रियोगैरञ्जनं रागमयं विहाय जगद्-रञ्जनम् । भजति जिनं निरञ्जनं तमेति मुक्तिः साऽरं जनम् ।। (४०) ।
SR No.002457
Book TitlePanchshati
Original Sutra AuthorN/A
AuthorVidyasagar, Pannalal Sahityacharya
PublisherGyanganga
Publication Year1991
Total Pages370
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy