________________
असारतःक्षारतः पारावारतः संसारतः दुःखं (हि प्राप्यते) । अतः निजे अजसा रतः भव। स्वतः सारतः सत् सुखं स्यात् ।।
क्षारत इति- असारतो नास्ति सारो यस्मिंस्तस्मात् साररहितात् । क्षारतः लवणस्वभावात्, पारावारतः सागरात् संसारतः पञ्चपरावर्तनमयसंसारात् दुःखं कष्टं हि प्राप्यते। अतो निजे स्वशुद्धात्मनि अञ्जसा यथार्थतो रतो लीनो भव । स्वतः स्वस्मात् सारतो यथार्थतः सत् समीचीनं सुखं सातं स्यात् भवेत् ।।७७।
अर्थ- सारहीन, खारे, सागरस्वरूप संसार से दुःख ही प्राप्त होता है। इसलिये निजस्वरूप में यथार्थतः लीन हो,सारभूत निज से सच्चा सुख होता है।।७७।।
[७८] न हि कैवल्यसाधनं केवलं यथाजात- प्रसाधनम् ।
चेन्न, पशुरपि साधनं व्रजेदव्ययमञ्जसा धनम् ।। केवलं यथाजात-प्रसाधनं न हि (इत्थम्) चेत् न, (तर्हि) पशुः अपि अञ्जसा अव्ययं साधनं धनं व्रजेत्।
नहीति- केवलं मात्रं यथाजातप्रसाधनं यथाजातस्येव सद्योजाततनयस्येव प्रसाधनं वेषो ‘वेशे प्रसाधनम्' इति विश्वलोचनः। कैवल्यसाधनं मोक्षोपायो न हि नैव विद्यते इति शेषः। न चेत्? एवं न स्यात्तर्हि पशुरपि गोगजाश्वमहिषीप्रभृतितिर्यगपि अञ्जसा यथार्थतया अव्ययमविनश्वरं साधनं गतिं मोक्षगतिरूपं धनं ब्रजेत् प्राप्नुयात्। यदि नाग्न्यमेव मोक्षस्य साधनं तर्हि पशुरपि नग्नत्वान्मोक्षं लभेत। परमार्थतो रत्नत्रयमेव मोक्षस्य मार्गो विद्यते। तत्पूर्तिश्च निर्ग्रन्थमुद्रायामेव जायते तस्मात्तदप्युपादेयमेव । • 'साधनं मेहने सैन्ये निवृत्तिगतिसिद्धिषु' इति विश्वलोचनः।।७८।।
___ अर्थ- मात्र नग्नवेष ही मोक्ष का उपाय नहीं है। यदि ऐसा न हो तो, पशु भी यथार्थ में अविनश्वर गति-मोक्षरूपी धन को प्राप्त हों।
भावार्थ- मोक्ष का साक्षात् कारण रत्नत्रय की पूर्णता है और वह पूर्णता निर्ग्रन्थवेष में ही होती है। अतः उसे भी बाह्य साधन स्वीकृत किया गया है ||७८।।
[७९] स्वीयतो भुवि भावतः शिवं भवेद् भववृद्धिर्विभावतः ।
विरतो भव विभावत इति वाग्धि विवेकविभावतः ।। “स्वीयतः भावतः भुवि शिवं भवेत्, भववृद्धिः विभावतः (भवेत्) अतः विभौ विरतः भव"- इति हि विवेकविभावतः वाग् ।
(३६)' . .