________________
नो सुखं सदाशातो जन्माप्राक्तो रवे कदाऽऽशातः ?।
तथापि निजदाशातो दूरोऽतोऽज्ञः सदा शातः ।। अशातः सत् सुखं न। अप्राक्तः आशातः रवेः जन्म कदा (भवंति) ? तथापि निजदाशातः अज्ञः सदा दूरः (वसति),अतः शातः (भवति)।
नो इति- आशातः आशायाः तृष्णात इति यावत् तसिलन्तप्रयोगः। सत् समीचीनं सुखं शर्म नो न भवतीति शेषः । अप्राक्तः पूर्वेतरतः आशाया दिशायाः। रवेः सूर्यस्य, जन्म उदयः कदा भवति? न कदापीत्यर्थः। तथापि अज्ञो जनः निजदाशातः निजं ददातीति निजदा सा चासौ आशा चेति निजदाशा तस्या स्वात्मावबोधाशायाः अथवा दशा एव दाशा निजस्य दाशा तस्याः स्वात्मदाशातः सदा दूरो वसति। अतः अशातः नास्ति शातं सुखं यस्य तथाभूतः दुःखीत्यर्थः भवति। 'शातं शर्मणि' इति विश्वलोचनः ।।७५।।
अर्थ- आशा - तृष्णा से समीचीन सुख नहीं होता। पूर्वेतर – पश्चिमादि दिशा सें सूर्य का उदय कब होता है ? फिर भी अज्ञानी मनुष्य निज दशा से दूर रहता है इसीलिये वह सदा अशात - सुखरहित अर्थात् दुःखी रहता है। ।।७५।।
[७६] स्वे वस मुदाऽमा यते! निजानुभवं कुरु चिन्तां माऽऽयतेः ।
नास्तु हीहामाय ते श्रयमुरसि भयमेहि माऽऽयतेः ।। यते! मुदा अमा स्वे वस। निजानुभवं कुरु; आयतेः चिन्तां मा (कुरु)। आयते भयं मा एहि । हि ते उरसि ईहामाय श्रयं न अस्तु ।
स्व इति- हे यते! भो श्रमण! मुदा हर्षेण अमा सह स्वे स्वात्मनि वस निवासं कुरु। निजानुभवं स्वसंवेदनं कुरु । आयतेः भविष्यतः चिन्तां मा कुरु । आयतेः यमस्य 'आयतिस्तु यमे दैर्ध्य प्रभावोत्तरकालयोः' इति विश्वलोचनः। भयं भीतिं मा एहि नो गच्छ। हि निश्चयेन ते उरसि हृदये । ईहामाय ईहा इच्छैव अमो रोगस्तस्मै भोगाकांक्षारूपरोगाय। श्रयं स्थानं मास्तु नो भवतु ।।७६ ।।
अर्थ- हे श्रमण! हर्ष के साथ अपने आत्मस्वरूप में निवास करो। निज का अनुभव करो। भविष्य की चिन्ता मत करो। मृत्यु के भय को प्राप्त मत होओ-मृत्यु से डरो नहीं और तुम्हारे हृदय में इच्छारूपी रोग के लिए स्थान नहीं हो ||७६।।
.
[७७] क्षारतः संसारतः पारावारतो दुःखमसारतः । ... निजे भवाजसारतः सुखं सत् स्यात् स्वतः सारतः ।।
.
.
.
(३८)