________________
य इति- यो जनः, भुवि वसुधायां मुनिलिङ्गं निर्ग्रन्थमुद्रां इतः प्राप्तः । येन जनेन मदो गर्व अन्तंगमितो विनाशं प्रापितः । अविनश्वरो नित्य आत्मा च गमितो ज्ञातः तेन जनेन, अमितः सीमातीतः कः सुखम् आप्यते इतीत्थं जिनवाग् जिनेन्द्रभारती विद्यते इति शेषः ।। ७० ।।
अर्थ- पृथिवी पर जो मुनिलिङ्ग - निर्ग्रन्थवेष को प्राप्त हुआ है, जिसने अभिमान को नष्ट किया है और जिसने अविनाशी आत्मा को जान लिया है, उसके द्वारा अपरिमित सुख प्राप्त किया जाता है, ऐसा जिनेन्द्र भगवान् का वचन है || ७० ||
[७१]
तदस्त्यसुमतामहित-मकं ततो दूरीभव त्वमहितः । यो प्राणिग्रामहितः स वदतीति मुनिसमितिमहितः । ।
'तत् अकम् असुमताम् अहितम् अस्ति। ततः अहितः त्वम् दूरीभव" इति यः मुनिसमितैिमहितः प्राणिग्रामहितः:- स वदति ।
तदितितत् प्रसिद्धम् । अकं पापम् । असुमतां प्राणिनाम् अहितमकल्याणकरमस्ति । ततः अहितः सर्परूपात् पापात् त्वं दूरीभव तत्समीपं न गच्छेत्यर्थः । इतीत्थं यः मुनिसमितिमहितः मुनीनां साधूनां समितिः समूहस्तया महितः पूजितः प्राणिग्रामहितः प्राणिनां ग्रामः समूहस्तस्य हितं यस्मात् सः । स एवं भूतो वदति कथयति। ‘ग्रामः स्वरे संवसथे वृन्दे शब्दादिपूर्वकः' इति, 'अकं दुःखाघयो, 'समितिः सङ्गरे साम्ये सभायां सङ्गमेऽपि च' इति च विश्वलोचनः । । ७१ ।।'
अर्थ- 'वह पाप प्राणियों का अहितकारी - शत्रु है - सर्परूप उस पाप से तू दूर रह' ऐसा मुनियों के समूह से पूजित और प्राणिसमूह के लिये हितकारी जिनेन्द्र कहते हैं । । ७१ ।।
[७२]
समुदमेति वासन्तः समुत्सवो वने यदा वासन्तः । नेत्वा निजवासन्त आशु शं शिष्या वा सन्तः ।।
यदा वासन्तः समुत्सवः वने एति ( तदा ) स वासन्तः मुदम् एति । हे न ! ते शिष्याः सन्तः वा निजवासं शम् ईत्वा आशु (मुदं यन्ति) |
स इति- यदा यस्मिन् काले वासन्तः वसन्ते भवः समुत्सवः समुल्लासः । बने विपिने एति समागच्छति तदा तस्मिन् काले वासन्तः कोकिलः । ' वासन्तः कोकिले मुद्गे' इति विश्वलोचनः । मुदं हर्षं 'मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसंमदाः' इत्यमरः । एति
(३६)