________________
असौ भावः अभावः च पर्यायस्य, भावस्य भावः न । भावः तु त्रैकालिकः - इति परमेष्ठिमतस्य भावः । असाविति- असौ अनुभवगोचरो भाव उत्पादः, अभावो व्ययश्च पर्यायस्य भवति । भावस्य द्रव्यस्य भाव उत्पादो नास्ति । भावस्तु द्रव्यं तु त्रैकालिकस्त्रिकालवर्ती नित्य इत्यर्थः। इतीत्थं परमेष्ठिमतस्य जैनदर्शनस्य भावोऽभिप्रायोऽस्तीति शेषः । 'भावोऽभिप्राय आशयः' इत्यमरः । जैनदर्शने तत्त्वं नित्यानित्यात्मकं प्रतिपादितं तच्च द्रव्यदृष्ट्या नित्यं पर्यायदृष्ट्या चानित्यं वर्तते । इत्थमुत्पादव्ययौ पर्यायस्य भवतो द्रव्यं तु त्रैकालिकत्वाद् भावरूपं विद्यत इति भावः । । ६८ ।।
अर्थ- यह उत्पाद और व्यय पर्याय का है, द्रव्य का नहीं। भाव- द्रव्य तो कालिक है - नित्य है, यह जैनमत का भाव - आशय है । ।। ६८ ।।
[६९]
यत्र रागाय वीचिर्मरीचेश्चेतसि चेन्मदो - वीचिः । तत्र न चकास्तु वीचिः किं न स दुःखपूर्णोऽदीचिः । ।
यत्र मरीचे; चेतसि रागाय वीचिः च मद: वीचि ( स्यातां ) चेत्, तत्र वीचिः न. चकास्तु । सः किं दुःखपूर्ण : अवीचिः न? (अस्त्येन)
यत्रेति - मरीचेर्मुनेः यत्र चेतसि हृदये रागाय रतिपरिणामाय वीचिरवकाशः, बीचिस्तरङ्गरूपः सन्ततिबद्धः स्वल्पो वा मदोऽहङ्कारश्च विद्यते चेत् तत्र मुनिहृदये वीचिः सुखं न चकास्तु न शोभताम् । एवंभूतः स मरीचिर्मुनिः किं दुःखपूर्णः संकटापन्नोऽवीचिर्नरको न वर्तते ? अपि तु वर्तत एव । ' वीचिर्द्वयोः स्वल्पतरङ्गयोः । 'अवकाशे सुखे चाथ' इति ' मरीचिर्ना यो दीप्तौ मुनौ ना कृपणेऽपि च' इति 'अवीचिर्नरके घूर्मि विरहे घूर्मिवर्जिते' इति च सर्वत्र विश्वलोचनः ।। ६९ ।।
अर्थ- मुनि के जिस हृदय में राग के लिये अवकाश है तथा अल्प अथवा सन्ततिबद्ध अभिमान है, उसमें सुख सुशोभित नहीं हो सकता। ऐसा मुनि क्या दुःखों से भरा हुआ नरक नहीं है ? अर्थात् नरक ही है ।
भावार्थ- रागद्वेष के रहते यथार्थ सुख की अनुभूति नहीं हो सकती ।।६९।।
[७० ]
यो भुवि मुनिलिङ्गमितस्तेनाप्यत इति को जिनवागमितः । येन मदन्तंगमितश्चात्मा ह्यविनश्वरो गमितः । ।
“यः भुवि मुनिलिङ्गम् इतः येन मदः अ· तंगमितः, आत्मा च गमितः तेन अमितः कः आप्यते’- इति जिनवाक् ।
(३५)