________________
"भवतः इयं निवृत्तिः कदा भवेत्' - इति हि भवतः भावना चेत् (अ) भवतः पदयोः मनः निक्षिपतु, मनोभवतः (मनः) दूरं निक्षिपतु।।
भावनेति-‘भवतः संसारात् इयं निवृत्तिर्विमुक्तिः कदा कर्हि भवेत्' इति हि भवतस्तव भावना विचारसन्ततिश्चेत् ? तर्हि अभवतः भवतीति भवन् न भवन् अभवन् तस्य भवमगृह्णतो जिनस्येति यावत् पदयोश्चरणयो: मनो मानसं निक्षिपतु निदधातु। मनोभवतः मनसि भवो जन्म यस्य स मनोभव: कामस्तस्मात् मनो दूरं निक्षिपतु। जिनचरणार्चनं मनोभवपरिहरणं च भवतो निवृत्तिसाधनमस्तीति भावः ।। ५३ ।।।
अर्थ- 'संसार से यह निवृत्ति कब होगी' ऐसी निश्चय से यदि तेरी भावना है तो तू अभवतः-जन्म ग्रहण न करने वाले अरहन्त के चरणों में मन लगा और काम से मन
||५३||
[५४] स ना नैति नालीक: स्वं तेनेतोऽर्थोऽतो नालीकः ।
यः समाननालीकः शिवश्रियेऽप्यस्तु नालीक: ?।। स ना नालीकः, यः स्वं न एति। अतः हे न ! तेन अलीकः अर्थः इतः यः (च) समाननालीकः (वर्तते), स शिवश्रिये अपि अलीकः न अस्तु ? (अस्तु एव-इत्यर्थः)।
स इति- स ना पुमान् नालीकोऽज्ञोऽस्ति ‘नालीक: पिण्डजेऽप्यज्ञे' इति विश्वलोचनः। यः स्वं आत्मानं नैति न प्राप्नोति न जानीते वा। अतः हे न! हे जिन! 'नकारो जिनपूज्ययोः' इति विश्वलोचनः। तेन पुंसा अलीको मिथ्या अर्थः इतः प्राप्तः यः समाननालीक: मानेन गर्वेण सहितः समानः, समानश्चासौ नालीकश्चेति समाननालीक: सगर्वाज्ञः अहङ्कारी मूर्खश्चेति यावत् वर्तते । स शिवश्रिये मोक्षलक्ष्म्यै अपि अलीकोऽप्रियो नास्तु न भवतु ? अपि तु भवत्वेव । 'अलीकं त्रिदिवे क्लीबं मिथ्यायामप्रिये त्रिषु' इति विश्वलोचनः ।। ५४।।
____ अर्थ- वह मनुष्य नालीक-मूर्ख है जो आत्मा को नहीं प्राप्त होता नहीं जानता। अतः · हे जिन! उसने अलीक-मिथ्या अर्थ को प्राप्त किया है-जान रखा है जो समाननालीक-अहङ्कारी एवं अज्ञानी है। ऐसा मनुष्य शिवश्री-कल्याणकारी लक्ष्मी अथवा मोक्षलक्ष्मी के लिए भी अलीक-अप्रिय क्यों न हो? अवश्य हो ||५४।।
[५५] तेनाऽऽप्यते साऽऽशु चिदेकमूर्तिश्च गताथैकाऽशुचिः । धृतदशधमैकशुचिर्यो निजं श्रमणः श्रयति शुचिः ।।
(२७)