________________
गतार्थकाऽशुचिः चिदेकमूर्तिः च सा आशु तेन आप्यते, यः श्रमणः धृतदर्शधर्मशुचिः शुचिः निजं यति ।
तेनेति- तेन श्रमणेन गतार्थंकाशुचिः गता विनष्टा अर्थस्थार्थपुरुषार्थस्यैका प्रमुखा अशुचिरपवित्रता यस्यां सा। सा प्रसिद्धा ज्ञानिजनसुलभेति सावत्। चिदेकमूर्तिः चितश्चैतन्यस्यैका अद्वितीया मूर्तिः ज्ञानैकमूर्तिरिति यावत् । आशु शीघ्रम् आप्यते प्राप्यते यः धृतदशधर्मशुचिः
धृतो
दशधर्माणां क्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकिञ्चन्यब्रह्मचर्याणां शुचिः पवित्रता येन तथाभूतः। शुचिरुज्ज्वलहृदयः श्रमणः साधुः निजं स्वात्मानं श्रयति सेवते। यो विगतार्थरुचिः क्षमाप्रभृतिदशधर्मालङ्कृतश्च भवति स एव ज्ञानैकमूर्ति निजात्मानं ध्यातुमर्हतीति भावः। 'शुचिः पुंस्युपधाशुद्धमन्त्रिण्याषाढबर्हिषोः' इति विश्वलोचनः । च समुच्चयार्थः।। ५५।।
अर्थ- उस श्रमण-साधु के द्वारा वह प्रसिद्ध-ज्ञानिजन सुलभ अर्थपुरुषार्थ सम्बन्धी अपवित्रता से रहित चैतन्य की अद्वितीयमूर्ति प्राप्त की जाती है, जो दशधर्म सम्बन्धी पवित्रता को धारण करने वाला उज्ज्वलहृदय श्रमण निज आत्मा का आश्रय लेता है ||५५।।
[५६] परिणतो दृशा साकं यदि नैति विधेरुदयात् सहसाऽकम् ।
कं मुक्तिरेतु साकं कश्चामितं तदाञ्जसा कम् ।। यदि ना दृशा साकं परिणतः विधेः उदयात् सहसा अकम् एति तदा सा मुक्तिः कं कं अञ्जसा एतु ? कः (च) अमितं कम् (एतु)?
परिणत इति- यदि चेत् ना नरो दृशा सम्यग्दर्शनेन साकं सार्धं परिणतस्तद्रूपं प्राप्तः। विधेः कर्मणा उदयात् चारित्रमोहोदयस्य प्राबल्यात् सहसा झटिति अकं पापं 'अकं दुःखाघयो! इति विश्वलोचनः । ऐति प्राप्नोति। सम्यग्दृष्टिर्भूत्वापि कर्मोदयवशतः पापं करोति। तदा सा प्रसिद्धा रत्नत्रयलभ्या मुक्तिः कं किन्नामधेयं कं आत्मानं अञ्जसा परमार्थत एतु प्राप्नोतु? किमपि नेत्यर्थः। कश्च क आत्मा च अमितमनन्तं कं सुखं एतु प्राप्नोतु? अपि तु न कोऽपीत्यर्थः ।। ५६ ।।
अर्थ- यदि सम्यग्दर्शन के साथ तद्रूपता को प्राप्त हुआ मनुष्य कर्म के उदय से सहसा पाप को प्राप्त होता है अर्थात् चारित्र से पतित होता है, तो रत्नत्रय की एकता से प्राप्त होने वाली मुक्ति किस आत्मा को यथार्थरूप से प्राप्त होगी? अर्थात् किसी को नहीं। इसी प्रकार चारित्र से पतित कौन मनुष्य अनन्तसुख को प्राप्त होता है ? अर्थात् कोई नहीं।
(२८) ।