________________
[५१] सन्तः समालसन्तः सन्तु सन्ततं स्वे स्वकं भजन्तः ।
अन्तेऽनन्ततामतः प्रयान्तु शिवालये वसन्तः ।। सन्तः स्वकं भजन्तः (अतएव) समालसन्तः स्वे सन्ततं सन्तु। अतः अन्ते शिवालये वसन्त: अनन्ततां प्रयान्तु।
सन्त इति-सन्तः साधवः स्वकं स्वस्य क आत्मा तं भजन्तः सेवमानाः। अत एव समालसन्तः सम्यगासमन्ताच्च शोभमाना सन्ततं निरन्तरं स्वे आत्मनि सन्तु तद्ध्यानपरा भवन्तु अतः आत्मरमणाद् अन्ते च शिवालये मोक्षे वसन्तः । अनन्ततां नास्ति अन्तो यस्य सोऽनन्तस्तस्य भावस्तामविनश्वरतां प्रयान्तु प्राप्नुवन्तु ।।५१।।
अर्थ- साधुजन स्वकीय आत्मा का भजन करते हुये एवं सम्यक् प्रकार से सुशोभित होते हुए निरन्तर आत्मा में रहें-उसी का चिन्तन-मनन करें। इससे अन्त में मुक्तिधाम में रहते हुए अनन्तता- अविनश्वरता को प्राप्त हों ।।५१।।.
[५२] सुकृतैनोभ्यां मौनमिति व्रज मत्वाहं देहमौ ! न ।
ध्रुवौ धर्मावमौ न रागद्वेषौ च ममेमौ नः ।। औ! नः! ''अहं देहं न,मम इमौ रागद्वेषौ अमौ ध्रुवौ धर्मो न" -इति मत्वा सुकृतैनोभ्यां मौनं व्रज।
सुकृतैनोभ्यामिति- औ नः! हे मानव! 'नः' इति नृशब्दस्य सम्बुद्धौ रूपम्। अहं देहं शरीरं न। शरीराद् भिन्नोऽस्मीति भावः । मम इमावेतौ रागद्वेषौ अमौ रोगौ ध्रुवौ स्थायिनौ धर्मी स्वभावौ न स्तः। इति मत्वा सुकृतैनोभ्यां सुकृतं च एनश्चेति सुकृतैनसी ताभ्यां पुण्यपापाभ्यां मौनं वाचं यमत्वं मुनित्वं वा व्रज गच्छ। पुण्यपापविकल्पातीतो भवेति भावः ।। ५२।।
अर्थ- हे मानव! मैं देह-शरीर नहीं हूं और मेरे ये रागद्वेषरूपी रोग स्थायी धर्म नहीं हैं, ऐसा मानकर पुण्यपाप से मौन को प्राप्तकर अर्थात् इनका विकल्प छोड़ शुद्धात्म का अनुभव कर । - भावार्थ- जब कर्म, नोकर्म और भावकर्म तेरे नहीं हैं तब पुण्य-पाप की चर्चा क्या? वे भी तेरे नहीं हैं अतः इनमें तू आत्मबुद्धि का त्याग कर।।५२।।
[५३] भावना चेद्धि भवतः कदा निवृत्तिरियमिति भवेद् भवतः । निक्षिपतु मनोऽभवतः पदयोर्दूरं मनोभवतः ।।
(२६)