________________
अर्थ- जो निश्चयनय से अलङ्कृत नहीं है किन्तु उसके विषयभूत संयमाचरणे से अलङ्कृत है उस मनुष्य को मुक्ति नय - परम्परा से प्राप्त हो सकती है । परन्तु जो असंयमी हैं उन्हें मुक्ति प्राप्त नहीं हो सकती ।।४८।।
[४९]
त्वं त्याज्यं त्यज मानं विस्मर यममलमात्मानं मा नम् । भवन्नमानी मानं गतः स जिनोऽनन्यसमानम् ।।
त्वं त्याज्यमानं त्यज, यम् अमलम् आत्मानं नं मा विस्मरे । स जिनः अमानी भवन् अनन्यसमानं मानं गतः ।
त्वमिति - ऐ श्रमण ! त्वं त्याज्यं त्यक्तुं योग्यं मानं गर्वं त्यज मुञ्च । यं प्रशस्तं अमलं निर्मलं आत्मानं नं जिनं मा विस्मर विस्मृतं नो कुरु । स जिनः अमानी मानरहितो भवन् अनन्यसमानं अनुपमं मानं ज्ञानं समादरं वा गतः प्राप्तः । 'नकारो जिनपूज्ययो:' इति विश्वलोचनः || ४९।।
अर्थ- हे मुने! तू छोड़ने योग्य मान को छोड़ । प्रशस्त निर्मल आत्मा तथा जिनदेव को मत भूल । वह जिनदेव मान - गर्व रहित होते हुए अनुपम - अद्वितीय मान-ज्ञान अथवा आदर को प्राप्त हुये हैं।
भावार्थ - यतश्च मानरहित जिनदेव सर्वाधिक मान-समादर अथवा ज्ञान को प्राप्त हुए, अतः मान - गर्व को छोड़ना श्रेयस्कर है ||४९||
[५० ]
यदि भवभीतोऽसि भवं भज भक्त्याऽभवमिच्छसि भव्य भवम् । दृशावस्य मनोभवं 'त्वङ्कुरु शुच्या निजानुभवम् ।।
भव्य ! यदि भवभीतः असि, अभवं भवम् (च) इच्छसि चेत् शुच्या दृशा मनोभवम् आवस्य त्वं भक्त्या भवं भज, निजानुभवं (च) कुरु ।
यदीति--हे भव्य ! यदि भवभीतो भवात् संसाराद् भीतस्त्रस्तोऽसि । अभवं नास्ति भवो जन्म यस्मिंस्तं भवं पर्यायं चेच्छसि तर्हि शुच्या पवित्रया दृशा दृष्टया विचारेणेति यावत् मनोभवं मदनं काममित्यर्थः । आवस्य समाप्य नष्टं कृत्वेति यावत् । त्वं भक्त्या समादरेण भवं जिनेन्द्रं भज सेवस्व निजानुभवं च स्वसंवेदनं च कुरु विधेहि ।। ५० ।।
अर्थ- हे भव्य ! यदि तू संसार से भयभीत है और अभव- जन्मरहित भव- सिद्धपर्याय को चाहता है तो निर्मलदृष्टि - सम्यक्त्व अथवा विवेक से मनोभव - काम को नष्ट कर भक्तिपूर्वक भव - जिनेन्द्रदेव की आराधना कर तथा शुद्ध आत्मा का अनुभव कर ||५० ।। ..
(२५)