________________
क्व सा दाहकता विना तिष्ठतु कथं, स च तया विनाऽविना ।
वस्तुतोऽस्तु यच्च विना ज्ञानमात्मना किन्तु न विना ।। सा दाहकता अविना विना क्व कथञ्च तिष्ठतु? स (अग्निः) तया विना च (कथं तिष्ठतु?) वस्तुतः यत् ज्ञानं विना विना-अस्तु, किन्तु आत्मना (विना) न (अस्तु)। (भवतीत्यर्थः)।
क्वेति- सा प्रसिद्धा दाहकता दाहकस्य भावो दाहकता दहनशीलता अविना-अग्निना विना क्व कुत्र कथं केन प्रकारेण तिष्ठतु? स चाविश्च अग्निश्च तया दाहकतया विना क्व कथं तिष्ठतु ? वस्तुतः परमार्थतः । यत् ज्ञानं विना आकाशेन विना अस्तु तयोर्गुणगुणिसम्बन्धाभावात् किन्तु आत्मना विना नास्तु। यथा दाहकता ह्यग्निना विना न तिष्ठति, अग्निश्च दाहकतां विना न तिष्ठति गुणगुणिभावात्। एवं ज्ञानं ह्यात्मना विना न तिष्ठति, आत्मा च ज्ञानं विना न तिष्ठति। ज्ञानमाकाशेन विना वरं तिष्ठतु तयोर्गुणगुणिसम्बन्धाभावादिति भावः । “विः खगाकाशयोः पुमान्' इति विश्वलोचनः। अत्र ‘विना' इति विशब्दस्य तृतीयान्तप्रयोगः ।।४७।।..
अर्थ- वह दाहकता अग्नि के विना कहाँ और कैसे रह सकती है और अग्नि दाहकता के बिना कैसे रह सकती है? वास्तव में ज्ञान वि-आकाश के विना तो रह सकता है पर आत्मा के विना नहीं रह सकता।
भावार्थ- जिसप्रकार गुणगुणी सम्बन्ध होने से दाहकता और अग्नि पृथक्-पृथक् अस्तित्व नहीं रखते उसी प्रकार ज्ञान और आत्मा गुणगुणी सम्बन्ध होने से पृथक्-पृथक् अस्तित्व नहीं रखते । आकाश के साथ ज्ञान का गुणगुणी सम्बन्ध नहीं है। अतः दोनों का अस्तित्व पृथक्-पृथक् सिद्ध है ||४७।।
[४८] न निश्चयेन नयेन किन्त्वलकृतस्तद्विषयेण येन ।
यस्तं व्रजेनयेन मुक्तिरसंयमिनस्तान् ये न ।। यः निश्चयेन नयेन न अलंकृतः, किन्तु तद् (तस्य निश्चयनयस्य) विषयेण येन (अलंकृतः) तं (नरं) मुक्तिः नयेन व्रजेत्। (परञ्च) ये असंयमिनः तान् न (व्रजेत्)।
नेति- यो मुनिः निश्चयेन नयेन शुद्धवस्तुस्वरूपप्ररूपकेण नयेन नालङ्कृतो न विशोभितः किन्तु तद्विषयेण तस्य निश्चयस्य विषयेण निश्चयानुरूपप्रवर्तनेन येन कारणेन अलङ्कृतस्तेन तं नरं मुक्तिनयेन परम्परया व्रजेत् प्राप्नुयात्। किन्तु ये असंयमिनो व्यवहारचारित्रेणापि शून्याः सन्ति तान् न व्रजेत् न प्राप्नुयात्। ये श्रद्धा सहितं निर्दोषं व्यवहारचारित्रं धरन्ति ते परम्परया मुक्तिं प्राप्नुवन्ति परन्तु ये सर्वथाऽसंयमिनः सन्ति तेषां मुक्तिप्राप्तिर्दुर्लभास्तीति भावः ।।४८।।
(२४)