________________
[४५] प्रत्ययो यस्य वृत्तं जिने निजचिन्तनतो मनो वृत्तम् ।
तस्य वृत्तं हि. वृत्तं कथयतीतीदमत्र वृत्तम् ।। यस्य जिने प्रत्ययो वृत्तं, निजचिन्तनतः (यस्य) मनः वृत्तं, तस्य वृत्तं हि वृत्तम्-इति इदं वृत्तम् अत्र कथयात ।
प्रत्यय इति- यस्य जिने प्रत्ययो विश्वासः श्रद्धा वा वृत्तं जातं सामान्ये नपुंसकलिङ्गप्रयोगः। यस्य मनश्चित्तं निजचिन्तनतो निजस्य चिन्तनं तस्मिन् 'सार्वविभक्तिकस्तसिल् वृत्तं वर्तमानम्। हि निश्चयेन तस्य वृत्तं चरितं वृत्तं परमार्थचरितमस्ति। सम्यग्दर्शनसम्यग्ज्ञानसहितमेव वृत्तं परमार्थतो वृत्तं भवतीत्यर्थः। इतीत्थम् अत्र जगति संदर्भे वा इदं वृत्तं छन्दः कथयति निवेदयति । 'त्रिषु वृत्तं तु चरिते वृत्तं छन्दसि वर्तते' इति । . 'प्रत्ययः प्रेमविश्रम्भप्रश्रयप्रसरेऽर्चने' इति च विश्वलोचनः ।।४५।।।
अर्थ- जिसका जिनेन्द्र भगवान् में विश्वास है और आत्मचिंतन में जिसका मन लगा हुआ है उसी का चारित्र वास्तव में चारित्र है ऐसा रहस्य यहां यह छन्द हमें बता रहा है ||४५।।
[४६] रुचिमेति कुधीः के न परवस्तुदत्तचित्तो युतोऽकेन ।
स्वस्थो जीवति केन सह मुनिस्तं नमामि केन ।। अकेन युतः परवस्तुदत्तचित्तः कुधीः के न रुचिम् एति। स्वस्थः मुनिः केन सह जीवति, तं केन नमामि।
रुचिमिति- अकेन दुःखेन पापेन वा 'अकं दुःखाघयोः' इति विश्वलोचनः । युतः सहितः परवस्तुदत्तचित्तः परवस्तुषु आत्मेतरपदार्थेषु दत्तं योजितं चित्तं येन सः परचिन्तनपर इति यावत्। कुधीः कुत्सिता धी र्यस्य स कुबुद्धिः के आत्मनि 'को ब्रह्मानिलसूर्याग्नियमात्मद्योतबर्हिषु' इति विश्वलोचनः । रुचिं प्रीतिं प्रतीतिं वा न एति न प्राप्नोति। यः स्वस्थ: स्वस्मिन् तिष्ठतीति स्वस्थ: आत्मचिन्तनतत्परः। मुनिः केन सुखेन जीवति तं केन शिरसा 'शिरोमोत्तमाङ्ग कम्' इति धनञ्जयः, 'कं सुखे वारि शीर्षे च' इति विश्वलोचनः ।।४६ ।।
___ अर्थ- जो अक-दुख या पाप से सहित है तथा जिसका चित्त परपदार्थों में लग रहा है, ऐसा कुबुद्धि-अज्ञानी मानव क-आत्मा में रूचि-प्रीति अथवा प्रतीति को प्राप्त नहीं होता । इसके विपरीत जो मुनि स्वस्थ-आत्मस्थ होता हुआ क-सुख से जीवित रहता है उसे मैं क-शिर से नमस्कार करता हूँ ।।४६।।
' (२३)