________________
[२१] आसन्नमृत्युर्विषयी कषायी, निष्क्रान्तकान्तिर्ननु दीप्तमोहः । अत्यन्तवृद्धा गहनेऽम्लिकास्तु,
तथापि वृद्धाम्लिकता न सास्तु ।। आसन्नेति - आसन्नमृत्युः आसन्नो निकटस्थो मृत्युर्मरणं यस्य तथाभूतः। विषयी पञ्चेन्द्रियविषयासक्तः। कषायी प्रदीप्तक्रोधादियुक्तः। निष्क्रान्तकान्तिः निष्क्रान्ता निर्गता कान्तिर्दीप्ति र्यस्य तथाभूतो ननु निश्चयेन दीप्तमोहो दीप्तो मोहो यस्य तथाभूतः तीव्ररागादियुक्तो भवति। तदेवोदाहरति- गहने विपिने अम्लिका ‘इमली' इति प्रसिद्धपादपा यद्यपि सन्तु तथापि सा प्रसिद्धा स्वभावभूता आम्लिकता अम्लरसयुक्तता नास्तु ? न भवतु अपितु भवत्येव । काकुप्रयोगः ‘भिन्नकण्ठध्वनिधीरैः काकुरित्यभिधीयते' इत्यभिधानात् ।।२१।।
अर्थ - जिसकी मृत्यु निकट है तथा कान्ति निकल चुकी है ऐसा विषयकषाय से युक्त मनुष्य निश्चय से तीव्रमोह से युक्त देखा जाता है जैसे वन में इमली के वृक्ष पुराने तो होते हैं पर उनका खट्टापन क्या वही नहीं रहता? ।।२१।।
[२२] शृङ्गार एवैकरसो रसेषु, • न ज्ञाततत्त्वाः कवयो भणन्ति ।
अध्यात्मशृङ्गं त्विति राति शान्तः,
शृङ्गार एवेति ममाशयोऽस्ति ।। शृङ्गार इति - रसेषु शृङ्गार एव एकरसः एकश्चासौ रसश्चेति एकरसो मुख्यरसोऽस्ति 'एके मुख्यान्यकेवलाः' इत्यमरः। इत्येवं ज्ञाततत्त्वाः ज्ञातं तत्त्वं यैस्ते तथाभूताः कवयो न भणन्ति न कथयन्ति। 'अध्यात्मस्य शृङ्गं शिखरं सर्वोच्चस्थानं राति ददातीति शृङ्गार इति निरुक्त्या शान्तः शान्ताभिधानो रस एव शृङ्गार एतन्नामा रसोऽस्ति। इत्येवं मम काव्यकर्तः आशयोऽभिप्रायोऽस्ति। ' अभिप्राय छंद आशयः' इत्यमरः। शृङ्ग मन्मथोद्भेदं राति ददातीति शृङ्गार इति निरुक्ति शृङ्गारपदस्य न ग्राह्या किंवध्यात्मस्य शृङ्ग शिखरं राति ददातीति ग्राह्येति भावः ।।२२।।
___ अर्थ - 'रसों में एक शृङ्गार रस ही प्रमुख हैं ऐसा यथार्थ तत्त्व को जानने वाले कवि नहीं कहते हैं। 'अध्यात्म के शृङ्ग - शिखर - सर्वोच्च स्थान को जो देता है वह शृङ्गार है इस निरुक्ति से शान्त ही शृङ्गार रस है ऐसा मेरा अभिप्राय है ।।२२।। ।
(२६३)