________________
[२३] तीर्थङ्कराणां शिवकेशवानां, नामावली सा बलदेवकानाम् ।
किं विस्मृता नो जगता मृता याप्यस्मादृशां कास्तु कथेतरेषाम् ।।
तीर्थेति - तीर्थङ्कराणां वृषभादीनां शिवकेशवानां शिवाश्च रुद्राश्च केशवाश्च नारायणाश्च तेषां । बलदेवकानां बलदेवा एव बलदेवकास्तेषां बलभद्राणां या नामावली मृता दिवंगता सापि किं जगता लोकेन नो विस्मृता विस्मृतिपथं नीता । अस्मादृशां मादृक्षाणाम् इतरेषामन्येषां का कथा चर्चा अस्तु भवतु । तीर्थंकरादीनामपि नामावली यदा जगता विस्मृता तदास्माकं सामान्यपुरुषाणां किं विस्मृता नो भविष्यति ? अतो लोकख्यातेर्निवृत्तिरेव श्रेयसीति यावत् ।। २३ । ।
अर्थ - तीर्थंकर, रुद्र, नारायण और बलभद्रों की भी नामावली मरने के बाद ' जब जगत् ने भुला दी तब हमारे जैसे साधारण पुरुषों की तो कथा ही क्या हो ? || २३ ||
[२४] अर्थेन युक्तं नरजीवनं न, चार्थे नियुक्तं मुनिजीवनं चेत् । खपुष्पशीलं च भुवीक्षुपुष्प - वदेव वन्द्यं न विदुर्विमानाः । ।
अर्थेनेति - चेद् यदि नरजीवनं गृहिमनुष्यजीवनं अर्थेन धनेन युक्तं सहितं न, मुनिजीवनं निर्ग्रन्थमुनिजीवनं च अर्थे नियुक्तं संपृक्तं तर्हि तत् भुवि पृथिव्यां खपुष्पशीलं गगनकुसुमसदृशं इक्षुपुष्पवच्च पौण्ड्रकदण्डकुसुमवच्च वन्द्यं वन्दनीयं समादरणीयं नास्तीति शेषः। इति विमानां विशिष्टज्ञानयुक्ता गर्वरहिता वा विदु र्जानन्ति ।।२४।।
अर्थ - यदि गृहस्थ मनुष्य का जीवन धन से रहित है और मुनि का जीवन धन में संलग्न है तो वह पृथिवी पर आकाश पुष्प और ईख के पुष्प के समान निष्फल है, अतः आदरणीय नहीं है, ऐसा ज्ञानी जन जानते हैं - कहते हैं ||२४||
[२५] संज्ञाततत्त्वोऽप्यधनी गृही स लोकेऽत्र दृष्टो धनिकानुगामी । श्वा स्वामिनं वीक्ष्य यथाशुदीनः, सुखाय संचालितलूमकोऽस्तु ।।
(२६४)