________________
[१९] असंयते श्रीमति धीमतीह, विना प्रयत्नेन मदस्य भावः । दृष्टेरभावात् किल तापसेऽपि.
निद्रा निशायां, समुपैति प्रायः ।। असंयत इति - दृष्टेविवेकदृशोऽभवात् । इह लोके असंयते संयमरहिते श्रीमति लक्ष्मीयुक्ते, धीमति सुधियि तापसेऽपि कृततपश्चरणे जनेऽपि प्रयत्नेन विना प्रयासमन्तरेण किल निश्चयतः मदस्य गर्वस्य भावः सद्भावः दृश्यत इति शेषः । तत्समर्थयति – निशायां विभावाँ प्रायो निद्रा समुपैति समागच्छति। यथा निशायां निद्रा निसर्गादायाति तथा संयमरहितेषु श्रीमत्प्रभृतिषु मदस्य सद्भावो निसर्गाद् दृश्यत इत्यर्थः।।१९।।
अर्थ- विवेकपूर्ण दृष्टि का अभाव होने से संयमहीन, श्रीमान्, धीमान् और तापसी में भी प्रयत्न के विना ही गर्व का सद्भाव होता है यह ठीक है क्योंकि प्रायः रात्रि में निद्रा प्रयत्न के विना आती ही है।।१९।।
__ [२०] विनात्र रागेण वधूललाटो, विनोद्यमेनापि विभांतु देशः । दृष्ट्या विना सच्च मुनेन वृत्तं,
रसेन शान्तेन कवे न वृत्तम् ।। दिनेति - अत्र भुवि रागेण कुङ्कुमेन विना वधू ललाटो ललनाभालो, उद्यमेन व्यवसायेन विना देशोऽपि जनपदोऽपि दृष्ट्या सम्यग्दर्शनेन विना मुनेः सद्वृत्तं सम्यकचारित्रं शान्तेन रसेन विना कवेः काव्यकर्तुः वृत्तं छन्दोऽपि नवभातु न शोभताम्। 'त्रिषु वृत्तं तु चरिते वृत्तं छन्दसि वर्तते' इति विश्वलोचनः । विभावानुभावसंचारिभावसंयोगादं व्यक्तः स्थायिभावो रसः कथ्यते। स च शृङ्गारहास्यकरुणारौद्रवीरभयानकाः। वीभत्सोऽद्भुत इत्यष्टौ शान्तोऽपि नवमः स्मृतः।।' इत्युक्तेर्नवविधो भवति ।।२०।।
___ अर्थ - इस पृथिवी पर कुङ्कुम के विना स्त्री का ललाट, व्यवसाय-उद्योग के विना देश, सम्यग्दर्शन के विना मुनि का सम्यक्चरित्र और शान्तरस के विता कवि का छन्द सुशोभित न हो ।।२०।।
(२८२०