________________
[१५] अध्यात्मशास्त्रं शमिने सुधा स्यात्, सङ्गात्मनेऽस्मिन् विषमं विषं तत् । मीनस्य नीरं खलु जीवनं हा, .
मृत्युः परस्मै विदितं न केन ?।। __ अध्यात्मेति - अध्यात्मशास्त्रम् आत्मनीति अध्यात्म तस्य शास्त्रमात्मस्वरूपविवेचको ग्रन्थः शमिने शान्तस्वभावाय मुनये सुधा पीयूषं स्यात्। अस्मिन् जगति सङ्गात्मने परिग्रहसहिताय गृहिणे तदात्मशास्त्रं विषमं तीव्र विषं गरलं स्यात् । खलु निश्चयेन नीरं जलं मीनस्य मत्स्यस्य जीवनं जीवनदायकं परस्मै तु मृत्युः प्राणान्तकरं स्यादिति केन न विदितं ज्ञातम्? सर्वैर्शातमित्यर्थः 'हा' खेदे पात्रस्य योग्यतामाकलय्यैव शास्त्रोपदेशो हिताय भवतिश्रोतृणामिति भावः ।।१५।।
___ अर्थ - इस जगत् में अध्यात्मशास्त्र, शान्तपरिणामी-गृहत्यागी मुनि के लिये अमृत रूप होता है, परन्तु परिग्रही गृहस्थ के लिये तो विषम विषरूप होता है। जैसे निश्चयतः पानी मछली के लिये जीवन-प्राणदायक परन्तु दूसरे के लिये मृत्युरूप है, . यह कौन नहीं जानता?
[१६] स्वभाव-भुक्तिर्न विभावमुक्तिस्तनूभृति त्यक्ततनौ यथा स्यात्। .. प्रकाशशक्ति न हि गन्धभावो, ..
दुग्धेऽमलत्वं तु घृते समस्तु।। __ स्वभावेति - त्यक्ततनौ त्यक्ता तनुः शरीरं येन तस्मिन् मृते इत्यर्थः तनूभूति शरीरिणि यथा न स्वभावस्य भुक्तिः संवेदनं भवति न विभावमुक्तिः विकृतपरिणामोपरतिः स्यात्। तदेवोदाहियते-दुग्धे क्षीरे न प्रकाशशक्तिरस्ति न च गन्धभावो विद्यते तु किन्तु तत्सर्वममलत्वं निर्मलत्वं प्रकाशकत्वं सुगन्धसत्वं च भवति। यथा घृते तत्स्वभावः प्रकटीभवति न तु तत्पूर्वपरिणामे दुग्धे तथैव सर्वगुणविकासः शुद्धात्मन्येव भवतीति भावः।।१६।।
___ अर्थ - जिस प्रकार मृत प्राणी में न स्वभाव का संवेदन है और न विभाव का मोचन, उसी प्रकार प्रकाश की शक्ति और गन्ध का सद्भाव दूध में नहीं है किन्तु घृत में अच्छी तरह है। तात्पर्य यह है कि अशुद्ध दशा में शरीर का परित्याग - मरण होने पर भी आत्मस्वभाव का वेदन नहीं होता और न विकारी भावों का मोचन। किन्तु यह सब शुद्ध दशा होने पर होता है ।।१६।।
(२६0)