________________
[११] सत्सन्निधाने पतितोऽसुमान्यः, श्रीकण्ठभावं ध्रुवमातनोति । रसं गतं शुक्लदधीदमत्र, .
श्रीखण्डभावं किमु नाभ्युपैति?।। सदिति - यः असुमान् प्राणी सत्-सन्निधाने सतां साधूनां सन्निधाने संगतौ पतितः प्राप्तः स ध्रुवं निश्चयेन श्रीकण्ठभावं शिवत्वम् आतनोति विस्तारयति। तदेवोदाहियते-अत्र भुवि, इदमेतत् शुक्लं सितवर्ण दधिरसं सितोपलादिजनितं मधुररसं गतं प्राप्तं सत् किमु श्रीखण्डभावं सुस्वादुपेयत्वं नाभ्युपैति न प्राप्नोति? अपि तु प्राप्नोत्येव ।।११।।
अर्थ - जो मनुष्य सत्संगति में पहुंच जाता है वह निश्चित शिवत्व-शंकरत्व -श्रेष्ठत्व को प्राप्त हो जाता है। इस जगत् में यह शुक्ल दही मिश्री के संसर्ग से उत्पन्न मधुररस के साथ मिलकर क्या श्रीखण्डभाव-सुस्वादुपेयता को प्राप्त नहीं हो जाता? अर्थात् हो जाता है।।११।।
_[१२]. तनूभृतां व्याधिसुमन्दिरं सा, . तनुर्मनोऽप्याधिकमन्दिरं तत् । . सुसाधुदेहोऽचलमन्दरो ऽस्तु,
चेतः समाधेः शिवमन्दिरं तु ।। तनूभृतामिति - तनूभृतां शरीरिणाम् सा प्रसिद्धा दृश्यमानेति यावत् तनुः शरीरं "स्त्रियां मूर्तिस्तनुस्तनूः' इत्यमरः । व्याधीनां शारीरिकपीडानां सुमन्दिरं सुस्थानम्। तत् प्रसिद्ध मनोऽपि चित्तमपि 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः। आधिकमन्दिरं आधयो मानसिकव्यथा त एवाधिकास्तेषां मन्दिरं स्थानं वर्ण्यतइति शेषः । "पुंस्याधिर्मानसीव्यथा' इत्यमरः। तु किन्तु सुसाधुदेहः सत्साधुकायः अचलमन्दर एतन्नामकमेरु स्थिरमेरु र्वाऽस्तु जितपरिषहो भवत्विति भावः । सुसाधोः चेतस्तु मनस्तु समाधेानस्य शिवमन्दिरं श्रेयः सदनम् । अस्तु। शरीरं व्याधिमन्दिरं ज्ञात्वा तस्मिन् रागपरिणतिन कार्येति भावः।।१२।। . अर्थ - प्राणियों का वह शरीर रोगों का घर है और वह मन मानसिक पीड़ाओं का स्थान है परन्तु सुसाधु का शरीर मेरु के समान स्थिर – परिषहविजयी और मन समाधि-ध्यान का उत्तम स्थान है ।।१२।।
(२८)