________________
सहते
'नु ?
अपि तु न सहते । विरुद्धवाचं
'यो रुष्टो न भवति स एव परिषहविजयी
श्रुत्वा
भवतीति भावः । । ९० ।।
अर्थ - 'तू कुधी है - मूर्ख है' इत्यादि दुर्वचन सुनकर जो कुपित हो प्रत्युत्तर देता है वह परिषहविजयी नहीं है, यह कहते हैं - हे सुधीः ! हे बिद्वन्मन्य! मेरी बुद्धि समीचीन उपयोग से सहित है और कल्याणकारिणी गुणों की दीप्ति में लीन है, तब मैं कुधी कैसे हूं। इस प्रकार जो उत्तर देता है वह क्या धीरता से अज्ञानपरिषह को सहता है ? अर्थात् नहीं सहता || ९० ||
"
[९१]
मम विदावरणेन तिरोहितं शुचिबलं यदनेन गिरोहितम् । सुरजसा कलितं शुचिदर्शनम्, झटिति फूत्करणात् जिन ! दर्शनम् ।।
ममेति - हे जिन ! मम मुनेः यत् शुचिबलं निर्मलज्ञातृत्वशक्तिः विदावरणेन ज्ञानावरणेन तिरोहितमन्तर्हितं तदेव अनेन कटुकभाषणेन गिरा वाण्या ऊहितं तर्कितं । ज्ञानावरणेन तिरोहितं मम ज्ञानमनेन स्ववाण्या चर्चितम् हीनमस्तीति चर्चाविषयीकृतम् । तदेवोदाह्रियते-सुरजसा शोभनपरागेण कलितं सहितं दर्शनं दर्पगं 'दर्शनं दृशि दर्पणे ' इति विश्वलोचनः । फूत्करणात् मुखेन फूत्करणात् शुचिदर्शनं शुचि समुज्ज्वलं दर्शनमवलोकनं यस्य तथाभूतं भवति । यथा फूत्करणाद् रजोऽपनयने सति दर्पणं झटिति निर्मलं भवति तथैतत्कटुकवाण्या ज्ञानावरणनिर्जरणेन मम ज्ञानं समुज्ज्वलं भविष्यतीति विचार्य चेतसि खेदो न करणीय इति भावः । । ९१ । ।
अर्थ - हे जिन ! मेरा जो निर्मल बल अथवा ज्ञान, ज्ञानावरण कर्म के उदय से आच्छादित था । उसे इस निन्दक ने अपनी वाणी से प्रकट कर दिया है। उचित ही है क्योंकि उत्तम रज से युक्त दर्पण फूंकने से शीघ्र ही उज्ज्वल दिखने लगता है ||९१||
[९२]
मम गुणेष्वधुनापि न वृद्धयः, समुदिता मुदिता परिसिद्धयः । इति न गच्छति साधुरुदासतां, न हि विमुञ्चति तां गुरुदासताम् ।।
ममेति - मम दीर्घ तपस्विनः गुणेषु ज्ञानादिषु अधुनापि भूयसि काले व्यतीतेऽपि वृद्धयः मुदिताः हर्षप्राप्ताः सिद्धय ऋद्धयो न समुदिताः न प्रकटिताः । इति विचार्य साधुः उदासतां खिन्नमनस्कतां न गच्छति न हि निश्चयेन तां चिरकृतां गुरुदासतां गुरुसेवां न हि विमुञ्चति न त्यजति । ऋद्धिसिद्धीनामभावे गुरुसेवादिरतो न भवतीति भावः । । ९२॥ अर्थ - इस समय भी - दीर्घ तपस्या के बाद भी मेरे ज्ञानादि गुणों में न वृद्धियां
(२५८)