________________
हुईं और न हर्ष को बढ़ाने वाली सिद्धियां प्रकट हुईं। ऐसा विचार कर साधु- उदासता को प्राप्त नहीं होता और न दीर्घकाल से चली आयी गुरुसेवा को छोड़ती है ।।९२।।
[९३]
जगति नाप्यधुना यशसा सित, स हि यमो जिनशासनशासितः । निरतिशायि ततो जिनदर्शन - मिति न संशयितः समदर्शनः । ।
जगतीति - हि यतः जिनशासनशासितः जिनमतोपदिष्टः स प्रसिद्धो यमः संयमो जगति भुवने अधुनापि साम्प्रतमपि यशसा कीर्त्या सितः शुक्लो निर्मलो वा न जातः । ततस्तस्मात् कारणात् जिनदर्शनं जिनशासनं निरतिशायि अतिशयरहितं वर्तते किम् ? इति समदर्शनः सधर्मा संशयितः संशययुक्तो न भवतीति ।। ९३ ।।
अर्थ - जगत् में जिनशास्त्रोपदिष्ट वह संयम इस समय भी यश से धवल नहीं हुआ। इस कारण जिनधर्म अतिशय से रहित है ऐसा समदर्शी मुनि को संशय नहीं करना चाहिये ||९३ ।।
[९४]
करणमानसजं लघु वैहिकं, सुखमितं न मया किमु वै हि कम् । जिनपशासनभानविनाशनं, न हि करोति स एवमनाशन ! ।।
करणेति - हे अनाशन! न विद्यते नाशनं यस्य तत्सम्बुद्धौ हे अविनश्वर ! वाथवा मया दीर्घतपस्विना करणमानसजं इन्द्रियमनःसमुद्भूतं लघु तुच्छं ऐहिकं एतल्लोकसम्बन्धिसुखं सातं न इतं न प्राप्तं वै हि निश्चयेन कं मोक्षसम्बन्धि सुखं किमु प्राप्तम् अपि तु न प्राप्तम् । एवमित्थं स मुनिः ऋद्धिसिद्धिरहित इति यावत् जिनपशासनमानविनाशनं जिनपस्य जिनेन्द्रस्य यच्छासनं तस्य मानस्य समादरस्य विनाशनं हानिं न हि करोति विदधाति । । ९४।।
अर्थ - हे अविनश्वर भगवन् ! मैंने इन्द्रिय और मन से होने वाला थोड़ा भी लौकिक सुख प्राप्त नहीं किया फिर पारलौकिक सुख की तो बात ही क्या है ? इस प्रकार विचार कर वह मुनि जिनशासन के सन्मान का नाश नहीं करता ||९४||
[९५]
जिनमतोन्नतितत्परजीवनं, विमलदर्शनवत् नदजीवनम् । भवतु वृत्तवतां खलु वार्पित- परिजयोऽस्तु यदेष समर्पितः । । जिनेति वृत्तवतां चारित्रयुतानां साधूनां जिनमतोन्नतितत्परजीवनं
(२५६).