________________
[६६]
श्रुतिसुधामशनं समितातपः, स समुपात्ति शमी शमितातप ! उपरि दृश्यत एव सदा सुखी, कृशतनु र्ह्यतनौ विमदा सुखी ।।
श्रुतीति - हे शमितातप ! शमी जितेन्द्रियो यस्तातोऽनुकम्प्यस्तं पाति रक्षतीति शमि-तात-पस्तत्सम्बुद्धौ ' तातोऽनुकम्प्ये' इति विश्वलोचनः । जितेन्द्रिय शिष्यसंरक्षक ! इति यावत्। शमी लोकोत्तरशान्तियुक्तः स मुनिः श्रुतिसुधां शास्त्रामृतं समितातपः सम्यक्तपश्च अशनमाहारं समुपात्ति सम्यक्प्रकारेण भुङ्क्ते । आहारालाभेऽपि स शास्त्रसुधापानं करोति तपश्चरणरूपमशनं च खादतीत्यर्थः । स उपर्येव सदा कृशतनुः कृशकायः असुखी दुःखी च दृश्यते । अतनौ न तनुरतनुस्तस्यामात्मनीति यावत् विमदो मदातीतः सुखी सुखयुक्तश्च भवतीति शेषः । । ६६ ।।
अर्थ हे शमि-तात- प! हे जितेन्द्रिय - दयापात्र शिष्यों के रक्षक भगवन् ! लोकोत्तर शान्ति से युक्त पे भुनिराज शास्त्ररूपी सुधा और सम्यक् तपरूप आहार अच्छी तरह उपभोग करते हैं। कृश शरीर वाले वे मुनि बाहर से ही सदा दुःखी दिखाई देते हैं। आत्मा में तो मद रहित सुख सम्पन्न ही रहते हैं ।। ६६ ।।
[६७]
बुधनुतः स मुनिप्रवरो गतः, सभयतां नितरां भवरोगतः । न हि बिभेति सुधीस्तनुरोगतः, स्तुतिरतो जिन ! ते गतरोगतः ।।
बुधेति हे जिन! हे अर्हन् ! भवरोगतो भव एव रोगस्तस्मात् जन्मजरामरणरूपसंसाररोगात् नितरामत्यन्तं सभयतां भीरुतां गतः प्राप्तः । बुधनुतो बुधैर्विद्वद्भिर्नुतः स्तुतः सुधीः सुबुद्धिः स मुनिप्रवरो मुनिश्रेष्ठः । तनुरोगतः शरीररोगाद् न हि बिभेति त्रस्यति । गतरोगतो रोगरहितस्य ते तव स्तुतौ स्तवने रतो लीनो भवतीति शेषः । । ६७ ।।
अर्थ - हे जिन ! जन्मजरामरणरूपसंसार सम्बन्धी रोग से अत्यन्त भय को प्राप्त, बुधस्तुत श्रेष्ठ मुनि शरीरसम्बन्धी रोग से भयभीत नहीं होता। वह तो रोगरहित होने से आपकी भक्ति में लीन रहता है ||६७||
[६८]
विधिदलाः बहुदुःखकरामया, बहव आहुरपीह निरामयाः । अशुचिधामनि चैव निसर्गतः, क्षरणमेव विधेरुपसर्गतः । ।
विधीति - निसर्गत: स्वभावादेव अशुचिधामनि अपवित्रास्थाने इह शरीरे बहवो
(२४७ )