________________
अर्थ - परिषहों को जीतने वाला मुनि ही सिंह के समान स्वात्मनिर्भरता और मुनियों के आधिपत्य को प्राप्त होता है। यदि इसके विपरीत है तो अशुभ को नष्ट करने वाला मुनि ज्ञानी होने पर भी लघुता और सत्पुरुषों के बीच उपहास को प्राप्त होता है ।।६३।।
[६४]
अनियतं विहरन्नपि स क्षमः, शृणु कृतानशनः खलु सक्षमः । अलभमान ऋषिर्ह्यशनं कर! सुलभमान इवाऽऽवदनंकरः ।।
अनियतमिति - हे कर! कं सुखं राति ददातीति करस्तत्सम्बुद्धौ हे कर! हे सुखद ! सक्षमः क्षमया तितिक्षया सहितः स मुनिः । अनियतं नियमरहितं यथा स्यात्तथा जात्वधिकं जातुचिदल्पमित्यर्थः विहरन्नपि विहारं कुर्वन्नपि कृतानशनोऽपि कृतमनशनंयेन कृतोपवासोऽपि खलु निश्चयेन क्षमः समर्थः शक्तिसंपन्नो भवतीति शृणु समाकर्णय । हि यतो निश्चयेन वा अशनमाहारम् अलभमानोऽप्राप्नुवानः ऋषिः साधुः सुलभमान इव सुष्ठुरूपेणाहारं प्राप्नुवान इव आवदनंकर: आसमन्तात् वदनं करोतीति तथाभूतः प्रसन्नवदन इत्यर्थो भवतीति शेषः । । ६४ ।।
अर्थ - हे कर! हे सुखद ! सुनो क्षमाधर्म से विभूषित मुनि अनियत विहार करते हुए तथा उपवास से युक्त होते हुए भी अपनी दिनचर्या में समर्थ रहते हैं । आहार न मिलने पर भी उनका मुख आहार मिलने वाले के मुख के समान अत्यन्त प्रसन्न रहता है।।६४।।
[६५]
रसयुते मिलिते न हि नीरसे, परिगतो विरतिं स मुनीरसे । प्रमुदितः क्षुभितो न हि मे विधेः, प्रतिफलं त्विति वै मनुते विधे ! ।।
रसेति - हे विधे! हे विधातः ! रसे घृतदुग्धादौ विरतिं विरक्तिं परिगतः प्राप्तः स मुनिर्यतिः रसयुते घृतदुग्धादिरससहिते नीरसे रसेभ्यो निष्क्रान्त इति नीरसम्नस्मिन् रसरहिते आहारे मिलिते प्राप्ते सति प्रमुदितः प्रहृष्टः क्षुभितः प्राप्तक्षोभो न हि भवर्ती ति शेषः । तु किन्तु प्राप्ताहारो मे मम विधेः कर्मणः प्रतिफलं वर्तते । कर्मोदयानुरूपं हि सरसं नीरसं भोजनं प्राप्यते । इतीत्थं वै निश्चयेन मनुते मन्यते - जानातीत्यर्थः । । ६५।।
अर्थ - हे विधातः! घृतदुग्धादिरसों में विरक्ति को प्राप्त हुआ मुनि सरस अथवा नीरस आहार के मिलने पर प्रसन्न अथवा कुपित नहीं होता । किन्तु यह हमारे कर्म का निश्चय स ऐसा मानता है।।६५।।
फल
है,
(२४६ )