________________
सदोषतां दोषसहिततां नयति प्रापयति, गतदोषतां निर्दोषतां च लयं विनाशं नयति । तदेवोदाहियते-निशि नक्तम् उडुपतिश्चन्द्रः केतुना राहुणा ग्रसितः सन् यथा सदोषतां याति तथा याचनया ग्रसितो मुनिः सदोषतां याति । इति विचिन्त्य ना पुरुष: निजके निजात्मनि वसेत् निवासं कुर्यात् । तु पादपूर्त्यर्थः ।। ६१।।
अर्थ - याचना का अनुसरण साधु को सदोषता प्राप्त कराता है और निर्दोषता को नष्ट करता है। जिस प्रकार रात्रि में राहु के द्वारा ग्रसित चन्द्रमा सदोषता को प्राप्त होता है उसी प्रकार याचना से ग्रसित साधु सदोषता को प्राप्त होता है। ऐसा विचारकर मनुष्य को निजात्मा में ही निवास करना चाहिये ।।६१।।
. [६२] सुकुफलं मिलतीह नियोगतः, स्वयमयाचितकं विधियोगतः । अथ मुने! भव हे त्वमयाचक- श्चलिततत्त्वविधिर्भुवि याचकः ।।
सुकुफलमिति - इह जगति विधियोगतः कर्मयोगतः सुकुफलं प्रशस्ताप्रशस्तफलम् अयाचितकम् अप्रार्थितं नियोगतः नियमेन स्वयं स्वतः मिलति प्राप्यते। अत: हे मुने! त्वम् अयाचको भव याचनकर्ता नो भव । अथ पक्षान्तरे यदि भुवि याचको याचनकर्ता भवसि तर्हि त्वं चलिततत्त्वविधिः वस्तुतत्त्वश्रद्धानंरहितो भवः। सुखदुःखप्राप्तिः स्वकर्मोदयाधीना भवतीति निश्चेतव्यम् ।। ६२ ।।
अर्थ.- इस जगत् में कर्मयोग से अच्छा-बुरा फल नियम से स्वयं मिलता है। अतः हे मुने! तुम अयाचक रहो किसी वस्तु की याचना न करो। इसके विपरीत यदि याचक होते हो तो निश्चित ही तुम तत्त्वश्रद्धा से विचलित होगे ||६२।।
[६३] व्रजति चैव मुनिर्मृगराजतां, जितपरीषहको मुनिराजताम् । इति न चेल्लघुतामुपहासतां, सुगत एव गतोऽशुभहा सताम् ।।
व्रजतीति - जितपरीषहकः जिताः परीषहा येन स तथाभूतो मुनिः मृगराजतां सिंहता स्वनिर्भरतां स्वतन्त्रतामित्यर्थ: मुनिराजतां मुनीनां राजा मुनिराजस्तस्य भावस्तां श्रेष्ठमुनितां चैव नियमेन व्रजति प्राप्नोति । चेत् यदि, इति न स्यात् परिषहजयी न स्यात् तर्हि अशुभहा अशुभं हन्तीति अशुभहा अशुभयोगापहारको मुनि: मुगतः सुज्ञानोऽपि लघुतां हीनतां सतां सत्पुरुषाणां मध्ये उपहासतां हास्यास्पदत्वं च एव नियमेन गतः प्राप्तः। परीषहविजयी साधुषु स्वगौरवं रक्षति श्रेष्ठतां च प्राप्नोति । अन्यथा साधुष हीनतां हास्यं च गच्छतीत्यर्थ: ।। ६३ ।।
(२४५)