________________
[५९]
विविधकर्मलयास्रवहेतवः, किलं हिताहितका जड हे ! तव । पथि सतीति मुनेर्मुनिचालकाः, सुकथयन्त्यनघाघविचालकाः । । विविधेति हे जड! हे अज्ञात्मन्! ये विविधकर्मलयास्रवहेतवः विविधानामनेकप्रकाराणां कर्मणां लयास्रवयोः संवरास्रवयो हेतवः कारणभूताः सन्ति त एव किल निश्चयेन सति प्रशस्ते मार्गे मोक्षमार्गे तव मुनेः साधोः हिताहितकाः . हिताश्चाहिताश्च हिताहिताः स्वार्थे कः हिताहितकाः सन्ति । इतीत्थं अनघाघविचालकाः पुण्यपापविचारकाः रलयोरभेदात् प्रयोगः । मुनिचालका मुनीनां चालका मुनिसङ्घप्रवर्तका आचार्या इत्यर्थः सुकथयन्ति निरूपयन्ति । वधकर्तृषु शत्रुबुद्धिर्न कार्येति भावः । । ५९ ।।
अर्थ - वध का प्रसङ्ग आने पर मुनि इस प्रकार आत्मसंबोधन करते हैं- हे अज्ञ आत्मन् ! नाना प्रकार के कर्मों के संवर और आस्रव में कारणभूत जो भाव हैं वे ही. यथार्थतः कल्याणमार्ग में तेरे मित्र और शत्रु हैं। अर्थात् जो संवर कें कारण हैं वे हि रूप हैं और जो आस्रव के कारण हैं वे अहितरूप हैं। इस तरह पुण्य-पाप का विचार करने वाले आचार्य कहते हैं ।। ५९ ।।
-
[६०]
वसतिकाप्रभृतेर्नहि याचना - मृषिरिहायति दीनतया च ना ! यदनया लयते निजतन्त्रता, न भजिता विदुषा परतन्त्रता ।।
वसतिकेति - इहात्र जगति ऋषिः मुनिपदविभूषितो ना पुरुषः 'ना पुमान् पुरुषो गोधा' इति धनंजयः । दीनतया दैन्येन वसतिकाप्रभृतेः निवासस्थानादेः याचनां याञ्चां नायति न प्राप्नोति न करोतीत्यर्थः । यद् यस्मात् कारणात् । अनया याचनया निजतन्त्रता स्वाधीनता लयते विनश्यति विदुषा विपश्चिता परतन्त्रता न भजिता न सेविता ।। ६० ।।
अर्थ - इस जगत् में ऋषिपदधारी मनुष्य दीनता से वसतिका आदि की याचना नहीं करता क्योंकि इस याचना से स्वाधीनता नष्ट हो जाती है। तथा विद्वान् के द्वारा परतन्त्रता का सेवन नहीं होता ||६० ||
[६१]
यदनुवृत्ति ऋषिं हि सदोषतां, नयति चैव लयं गतदोषताम् । उडुपतिर्ग्रसितो निशि केतुना, त्विति विचिन्त्य वसेन्निजके तु ना ।। यदनुवृत्तिरिति - यदनुवृत्तिः यस्या याचनाया अनुवृत्तिर्यदनुसरणम् ऋषिं मुनिं
(२४४ )