________________
[५७] फलमिदं तु पुराकृतशावरे, समुदिते न पराकृतशावरे। इह परे प्रभवो व्यवहारतः, स मनुते हि निजेऽव्रतहा रतः।।
फलमिति - पुराकृतशावरे पुराकृतं पूर्वजन्मकृतं यत् शावरं पापं तस्मिन् समुदिते सति उदयागते सति इदं फलं उपसर्गरूपं प्राप्तं । पराकृतशावरे परेण आसमन्तात् कृतं विहितं शावरमपराधस्तस्मिन् सति न तु प्राप्तम्। इह जगति परेऽन्यस्मिन् प्रभवः प्रभवत्यस्मादिति प्रभवः कारणमिति कथनं व्यवहारत उपचाराद् भवति। हि निश्चयेन निजे स्वात्मनि रतो लीन: अवतहा अव्रतं हन्तीति अवतहा स मुनिः एवं मनुते मन्यते। 'शावरो लोधवृक्षे स्यात्तथा पापापराधयोः' इति विश्वलोचनः ।। ५७।।।
अर्थ - यह उपसर्गरूप फल पूर्वकृत पाप के उदित होने पर प्राप्त हुआ है न कि अन्यकृत अपराध के होने पर। इस जगत् में परपदार्थ में जो कारण का कथन होता है वह व्यवहार- उपचार से होता है। निजात्मा में लीन साधु ऐसा मानते हैं ।।५७।।
[५८] तनुरुषोऽरुणताऽशुचिसागरा, वधमिता भवदाशु च सा गरा। मम ततः क्षतिरस्ति न काचन, चरणबोधदृशो धुवकाश्च न ! ।।
तनुरिति - हे न! जिन! मम मुनेः सा तनुः मूर्तिः शरीरमित्यर्थः। उषोऽरुणता उषसः प्रत्यूषकालस्यारुणता लालिमा प्रातःकालिकलालिमवत्क्षणभङ्गुरास्ति। अशुचिसागरा अशुचेरपवित्रायाः सागर: सिन्धुर्यस्यां तथाभूतास्ति आशु शीघ्रं च भवदा भवं संसारं ददातीति भवदा संसारव र्धिनी अथवा भवं पर्यायं द्यति खण्डयतीति भवंदा वर्तमानपर्यायनाशकरी अस्ति। किञ्च आगरा आसमन्तात् गरो विषं गरं रोगो वा यस्यां तथाभूतास्ति । एवंभूता तनुर्यदि वधं विनाशं इता प्राप्ता तर्हि ततस्तनुवधात् मम काचन कापि क्षतिर्हानिर्नास्ति न विद्यते। किञ्च मम चरणबोधदृशः चरणं च बोधश्च दृक् च चरणबोधदृश: चारित्रज्ञानसम्यग्दर्शनानि ध्रुवका नित्याः सन्ति। तनुविनाशेऽपि रत्नत्रयविनाशो न भवतीत्यर्थः।। ५८।।।
अर्थ - वध का प्रसङ्ग आने पर साधु ऐसा विचार करता है कि हे जिन! मेरा वह शरीर प्रातःकाल की लालिमा है। अशुचिता का सागर उसमें लहरा रहा है, भव को देने वाला है अथवा वर्तमान पर्याय को नष्ट करने वाला है और सब ओर से विषरूप अथवा रोगों से सहित है। ऐसा शरीर यदि वध को प्राप्त हो रहा है तो इससे मेरी कुछ भी हानि नहीं है क्योंकि मेरे दर्शन, ज्ञान और चारित्र ध्रुवरूप हैं - नष्ट नहीं हुए हैं ।।५८।।
(२४३)