________________
अर्थ - अत्यन्त शीत वायु चले, अग्नि अमृतभाव को प्राप्त हो और जगत् में जीवों की दशा कम्पन से युक्त तथा शरीर को विदीर्ण करने वाली भले ही हो तो भी धर्म से विचलित नहीं होता ।। १५ ।।
[१६]
तरुणतोऽरुणतः किरणावली, प्रशमिता सविता सगुणाऽवली । गुरुनिशा लघुतां दिवसं गतं मुनिरितः स्ववशं ननु संगतम् ।।
"
तरुणत इति - तरुणतो मध्याह्नसम्बन्धिनः अरुणतः सूर्यात् निःसरन्ती किरणावली रश्मिसंततिः प्रशमिता शान्ता जाता । सविता सूर्योऽपि सगुणावली गुणसमूहसहितः प्रशमितः शान्तिं प्राप्तः । गुरुनिशा दीर्घरात्रिर्जाता । दिवसं दिनमपि लघुतां ह्रस्वतां गतं प्राप्तं । शीतसमये नैव प्रभाकरप्रचण्डरश्मयो मन्दा जाताः इत्यर्थः । सगुणावली गुणसमूहसहितः सूर्यः प्रशमं प्राप्तः । गुरुनिशा रात्रि गुरुत्वं प्राप्ता दिवसश्च लघुतां प्राप्तः तथापि मुनिः स्ववशं स्वाधीनं संगतं ननु निश्चयेन इतः प्राप्तः पावकादिवशतां नो प्राप्त इत्यर्थः ।। १६ ।।
अर्थ - शीत की अधिकता के कारण ही मानों मध्याह्न के सूर्य की किरणावली शान्त हो गई। स्वकीय गुणावली से सहित सूर्य शान्त हो गया, रात बड़ी और दिन छोटा हो गया, तो भी मुनि निश्चय से स्वाधीन संगति को ही प्राप्त रहे अर्थात् शीत निवारक परपदार्थों के अधीन नहीं हुए ||१६||
[१७]
विमलचेतसि पूज्ययतेः सति, महसि सत्तपसि ज्वलिते सति । किमु तदा हि बहिर्हिमपाततः, सुखितजीवनमस्य मपाः ततः । ।
विमलेति - पूज्ययतेरर्चनीयमुनेः सति प्रशस्ते विमलचेतसि निर्मलहृदये सत्तपसि समीचीनतपो रूपे महसि तेजसि प्रज्वलिते प्रदीप्ते सति जाते । हि निश्चयेन तदा तस्मिन् काले बहिः बाह्यं शरीरोपरीति यावत् हिमपाततः तुषारपतनात् किमु का चिन्ता ? अस्य सत्तपोऽनलविभ्राजितस्य साधोः सुखितजीवनं सुखसम्पन्नजीवनं भवतीति शेषः । ततस्तस्मात् कारणात् हे साधो ! त्वं मपाः मं ब्रह्माणमात्मानं पाति रक्षतीति मपाः शरीररक्षां विहाय शुद्धात्मरक्षणतत्परः स्यादिति शेषः ।
अर्थ - पूज्य मुनिराज के प्रशस्त निर्मल चित्त में जब समीचीन तपरूपी तेज देदीप्यमान हो रहा है तब बाह्य में बर्फ के पड़ने से उसे क्या चिन्ता है ? इसका जीवन तो उस समय भी सुखी रहता है इस कारण हे साधो ! तुम ब्रह्मरूप आत्मा के रक्षक होओ।
(२२४)