________________
निजशान्तस्वरूपं ध्यायतीत्यर्थः। भुत्तृड्व्यथातीतो मम शुद्धस्वभावोऽस्त्येवं चिन्तयन्' साधुस्तृषापरीषहं सरलतया सहते। किलेति वाक्यालंकारे ।। १३।।
अर्थ - यदि कदाचित् मुनि कण्ठ में तृषा से युक्त होता है अर्थात् प्यास से उसका गला सूखता है तो वह अपने चैतन्यरूप निर्मल वसुधा के भीतर विद्यमान एवं व्यय,उत्पाद और ध्रौव्य लक्षण से सहित प्रशमरस के भण्डार में उस प्रकार शीघ्र अवगाहन करता है जिस प्रकार कि चन्द्रमा समुद्र में ||१३।।
... - [१४] व्यथितनारकिणोऽपि पिपासवः,कलितकण्ठगतापकृपासवः । इति विचार्य मुनिस्तदपेक्षया, मयि विपन्नयुतोऽयमुपेक्षया ।।
व्यथितेति - कलिता धृताः कण्ठगता निःसरणोन्मुखा अपकृपा निर्दया असवः प्राणा यैस्तथाभूताः। पिपासवः पातुमिच्छवः पिपासातुराः व्यथितनारकिणोऽपि व्यथिताश्च ते नारकिणश्चेति तथाभूताः पीडितनारका अपि सन्ति । तदपेक्षया नारकिणामपेक्षया मयि. विपत् विपत्तिः न विद्यते इतीत्थं विचार्य। अयं मुनिः एष श्रमण: उपेक्षया तृषानिराकरणविषयिण्या युतः सहितो विद्यते । ये नारकास्त्रयस्त्रिंशत्सागरावधिपर्यन्तं सलिलसीकरं न प्राप्नुवन्ति तदपेक्षया मम कियत् कष्टमिति विचार्य मुनिस्तृषानिवारणं प्रति मन्दादरो भवतीति भावः ।।१४।। ___ अर्थ-जिनके निर्दय प्राणकण्ठगत हो रहे हैं ऐसे प्यास से युक्त पीडित नारकी भी तो हैं उनकी अपेक्षा मेरी विपत्ति कोई विपत्ति नहीं है, ऐसा विचार कर मुनि प्यास के प्रति उपेक्षा से सहित है अर्थात् प्यास दूर करने का काई प्रयत्न नहीं करते।।१४।।
[१५] चलतु शीततमोऽपि सदागति- रमृतभावमुपैतु सदागतिः। जगति कम्पवती रसदा गतिः, स्खलति नो वृषतोऽपि सदागतिः।।
चलत्विति - शीततमोऽपि अतिशयेन शीतः शीततमः तथाभूतोऽपि सदागतिर्वायुश्चलतु प्रवहतु। सदागतिरग्निः अमृतभावं सुधात्वं शैत्यनिवारकत्वादिति यावत्। उपैतु प्राप्नोतु। जगति भुवने कम्पवती कम्पनकारिणी रसदा रसं शरीरं द्यति खण्डयतीति रसदा शरीरविदारिणी गतिशा च भवतु तथापि सदागति र्मुनिः। वृषतो मुनिधर्मतः नो स्खलति भ्रष्टो न भवति। 'सदागतिर्गन्धवाहे निर्वाणेऽपि सदीश्वरे' इति । 'रसः स्वादेऽपि तिक्तादौ शृङ्गारादौ द्रवे विषे। पारदे धातुवीर्याम्बुरागे गन्धरसे तनौ' इति च विश्वलोचनः ।।१५।। ।
'(२२३)