________________
भावार्थ - बर्फ के पड़ने से यदि शगर का नाश होता हो तो हम अपने जाता दाटा ग्वभाव वाले आत्मा की रक्षा करे।। १७ ।।
[१८] नभसि कृष्णतमा अभयानकाः, सतडितः राजलाश्च भयानकाः । अशनिपाततयाप्यचलाश्चलाः, स्थिरमटेच्च मुनि हयचला चलाः ।। __ नभयीति - नभसि गगने कृष्णतमाः अतिश्यमलाः सतडितः विद्युत्सहिताः, सजलाः जलयुक्ताः, भयानकाः भीतिप्रदा: आनकाः गर्जन्मेघाः, 'आनकः पटहेभेर्या मृदंगेध्वनदम्बुदे' इति विश्वलोचनः। सन्ततरामिति शेषः। अशनिपाततया वज्रपातत्वेन अचलाः पर्वता अपि चलाः चंचला भवेयुरिति शेषः । 'अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः' इत्यमरः । अचला पृथिवी च चला चंचला स्यादिति शेषः । 'अचलः पर्वते कीले निश्चलेऽप्यचला भूवि'. इति विश्वलोचनः । तथापि हे अभय ! हे निर्भय ! मनि स्थिरं शीतपरिषहतोऽविचलितम् । अटेत प्राप्नुयात । मुनिः सदा स्थिर: परिषहविजयीभवतीति भावः ।। १८ ।।
अर्थ - आकाश में कौदती हुई बिजली से सहित जलयुक्त, भयोत्पादक, काले-काले गर्जते हुए मेघ भले ही छाये रहें, वज्रपात से पर्वत भी चंचल हो उठे
और अचला--पृथिवी भी चला हो जावे -- कांप उठे तो भी हे अभय । मनि को स्थिर ही पाते है। तथोक्त उपसर्गों के कारण मनि कभी भी विचलित नहीं होते।।
[१६] तपनता तपनस्य निदाधिका, व्रतवते स्ववते न निदाऽधिका। समुचितं सवितुः प्रकराः कराः,सलिलजाय सदा प्रखराः कराः ।।
तपनतेति - तपनस्य सूर्यस्य निदाधिका ग्रीष्मर्तुसम्बन्धिनी तपनता उष्णता स्ववते आत्मवते जितेन्द्रियायेति यावत् । व्रतवते मुनये निदाघका दुःखदायिनी न भवतीति शेषः । इति समचितं योग्यमस्तीति शेषः । तदवोदाहियते - सवितः सूर्यस्य प्रकराः प्रकृष्टस्पाः प्रखराः अतिशयेन तीक्ष्णा 'तिग्नं तीक्ष्णं खरं तद्वत्' इत्यमरः । कराः किरणाः ‘बलिहस्तांशवः कराः' इत्यमरः । सलिलजाय कमलाय कराः सदा कं सुखं रान्ति ददतीति कराः सुखकरा: सन्ति। 'पापेऽतौँ व्यसने चाघ' इति विश्वलोचनः ।। १६ ।।
अर्थ - सूर्य की ग्रीष्म कालीन तपनता आत्मविजयी मुनि के लिये दुःखप्रद नहीं होती यह उचित ही है क्योंकि सूर्य की अत्यन्त तीक्ष्ण किरणें कमल के लिये सदा सुखदायक होती हैं ।। १६ ।। . (२२५)