________________
उ ! (त्वं) मदोन्मत्तं मनः मनोहरं हरिं हरं एनोहरं (प्रथमं ) नय नु अदः (वात्सल्यं) वित्तं अरं श्रय नो हिरं अरिं (श्रय) हि (पादपूर्ती) ।
मनोहरमिति- उ सम्बुद्धौ, (त्वं) हे आत्मन्! इत्यर्थः मदोन्मत्तं मनश्चित्तं मनोहरं चेंतोहारिणं, हरिं गजारिं शार्दूलं हरं हरनामधेयं, एनोहरं पापापहारकं सिंहपक्षे मृगापहारकं जिनं (प्रथमं ) सर्वतः प्रागित्यर्थः, नय प्रापय नु वितर्के अदः एतत् (वात्सल्यं) वित्तं धनं, अरं शीघ्रं श्रय, व्रज प्राप्नुहि, हि निश्चयेन रं कामानलं, अरिं शत्रुम्, नो श्रय नो सेवस्व, हि पादपूर्ती ।। १०० ॥
1
"
अर्थ- हे आत्मन्! तू यह वात्सल्यभाव सब से पहले मदोन्मत्त मन को, मन को हरण करने वाले सिंह को और पाप को हरने वाले हर को प्राप्त कराओ । इस वात्सल्य रूप धन का तू शीघ्र ही आश्रय ले, कामाग्नि रूप शत्रु का आश्रय मत ले ।। १०० ।।
गुरुस्मरणम्
श्रीज्ञानसागरकृपापरिपाक एव,
यद् 'भावनाशतककाव्य ' - मघारिहन्तृ । अध्यास्य सुश्रयमतोऽस्य सुशस्यकस्य, विद्यादिसागरतनुर्लघु ना भवामि । । १०१ । ।
(अयम्)श्रीज्ञानसागरकृपापरिपाकः एव यत् अघारिहन्तृ भावनाशतककाव्यम् (मया रचितम्) अतः सुशस्यकस्य अस्य सुश्रयम् अध्यास्य ना अहम् लघु विद्यासागरतनुः भवामि ।
श्रीति - अयं श्री ज्ञानसागरस्य मद्दीक्षागुरोः कृपायाः करुणायाः परिपाकः परिणामः फलमिति यावत् । यत् अघारिहन्तृ पापशत्रुविनाशकम् भावनाशतककाव्यम् एतन्नामधेयकाव्यं जातं मया रचितमितिभावः । अतोऽस्मात् कारणात् सुशस्यकस्य अतिशयेन शस्यः प्रशंसनीयः क आत्म यस्य तस्य । अस्य ज्ञानसागरगुरोः सुश्रयं सम्यगाश्रयम् अध्यास्य अधिष्ठाय समवलम्ब्येत्यर्थः ना साधारणमनुष्योऽहं लघु शीघ्रं विद्यासागरतनु विद्यासागररूपी भवामि ।। १०१ । ।
अर्थ - यह श्री ज्ञानसागर महाराज की कृपा का फल है कि मेरे द्वारा पापरूप शत्रुओं को नष्ट करने वाला' भावनाशतक' नाम का काव्य बन सका । अतः अतिशय प्रशंसनीय आत्मावाले इन गुरु का आश्रय प्राप्त कर मैं एक साधारण मनुष्य शीघ्र ही विद्यासागर हो रहा हूँ।
( १६५)