________________
[९८]
भवति स्म भो ! भावतो भवति भवभवकृतशुभतो भावतः । न्विदं विभो! विभावतो वियुतो भवोभवो भावतः । ।
भो ! विभो ! भावतः भावतः भवति नु इदं (वात्सल्यं) भवभवकृतशुभतः भवति स्म अतः भावतः विभावतः वियुतः अभवः भवः (अस्ति ) ।
7
भवति स्मेति- भो ! विभो ! हे भगवन् ! भावतः सहजरूपेणैव निसर्गतः प्रयासेन विना, भावतः जन्मतः भवति भगवति, इदं (वात्सल्यं) भवभवकृतशुभतः ^जन्मजन्मविहितपुण्ययोगात् भवति स्म अभूत्, 'स्म' - योगाद्भूतकालबोधः । अतः अस्मात् भावतः संसारतः, विभावतः रागादिकवैभाविकपरिणतेः, वियुतः विमुक्तः रहितः, अभवः जन्मरहितः, भवः श्रेयः कल्याणरूप इति यावत् अस्तीति शेषः । भवः श्रीकण्ठसंसारश्रेयः सत्ताप्तिजन्मसु ' इति विश्वलोचनः । । ९८ ।।
अर्थ - भो विभो ! हे भगवन् ! सहज रूप से, जन्म से ही आप में यह वात्सल्य अनेक भवों में किये पुण्य योग से प्रकट हुआ था । अतः संसार एवं विभावपरिणति से रहित अभव-जन्मातीत भव- सिद्धपर्याय प्राप्त होती है ।। ९८ ।।
[९९]
मनु रविरिव पयोऽङ्ग तं पयोजचयं प्रति पयः पयोगतम् । भूतमपापयोग तन्मनोस्त्वकं मे कृपया गतम् ।।
उ ! अङ्ग! अपापयोग! तं पयोजचयं प्रति रविः पयोगतं पयः प्रति पयः इव अकं गतं भूतं (प्रति) मे तत् मनः कृपया (सह) अस्तु ।
ननु रविरिवेति- उ!अङ्ग!इति सम्बुद्धिवाचकौ, अपापयोग! हे अशुभयोगरहित! तं प्रसिद्धं, पयोजचयं प्रति कमलसमूहं प्रति, रविः सूर्यः इव, पयोगतं दुग्धगतं, पयः जलं प्रति, पय इव दुग्धमिव 'दुग्धे नीरे वटादीनां क्षीरेऽपि क्षीरपत्ययः' इति विश्वः । अकं दुःखं प्राप्तं भूतं प्राणिनं (प्रति ) मे मम तद् वात्सल्यभावभावितं मनः, कृपया करुणया ( सह ) - ननु निश्चयेन अस्तु ।। ९९ ।।
अर्थ- हे अशुभोपयोग से रहित ! प्रसिद्ध कमलसमूह के प्रति सूर्य के समान तथा दूध मिले पानी के प्रति दूध के समान दुःखी प्राणी के प्रति मेरा वह मन करुणा से युक्त हो ।। ९९ ।।
[१००]
मनोहरं मदोन्मत्तं मनो हरं हरिं नय । एनोहरं वदो वित्तं रं नो ह्यरं ह्यरिं श्रय ।
( १६४ )