________________
हे धृतभाव! प्रभो ! अस्मिन् (वात्सल्ये) सति हिंसात्मकवृत्तेः किं वसतिः अस्तु ? विहायसि वसति लसति प्रभाकरे किं वसतिः ? (नेत्यर्थः) ।
अस्मिन्निति- हे धृतभाव ! धृतो भावः स्वभावो येन तत्सम्बुद्धौ ' भावः स्वभावचेष्टाभिप्राय सत्त्वात्मजन्मनि इति विश्वलोचनः । प्रभो ! भगवन् ! अस्मिन् (वात्सल्ये) सति विद्यमाने, हिंसात्मकवृत्तेः क्रूरपरिणतेः, किं वसतिः स्थितिः अस्तु ? अपि तु न । लसति शोभमाने, विहायसि गगने, प्रभाकरे सूर्ये कृतनिवासे सति, किं वसतिः निशा, वसति ? निवासं करोति ? अपि तु न 1 'बसतिः स्यान्निशा वेश्मावस्थानेष्वर्हदाश्रमे ' इति विश्वलोचनः । अवस्थानं स्थितिरित्यर्थः । । ९६ ।।
अर्थ- हे धृतभाव! हे स्वभाव के धारक प्रभो ! इस वात्सल्यभाव के रहते हुये हिंसात्मक - क्रूरवृत्ति की क्या स्थिति हो ? अर्थात् नहीं हो। आकाश में देदीप्यमान सूर्य के रहते क्या रात्र रह सकती है ? अर्थात् नहीं । । ९६ ।।
[९७]
अनलयोगात् कलङ्कस्तथात्मनोऽस्माल्लयमेति कलङ्कः । सकलं गतः कलं कः कलयति कलमेशोऽकलङ्कः । ।
(यथा) अनलयोगात् कलङ्कः लयं (एति) तथा आत्मनः कलङ्कः अस्मात् (वात्सल्यात्) लयं एति (इति) सकलं गतः कलं ( गतः च) कलमेश: अकलङ्कः कः कलयति ।
अनलेति- (यथा) अनलयोगात् अग्निसंयोगात्, कलङ्कः कालायसदोष: ‘कलङ्कोऽङ्के कालायसमले दोषापवादयो:' इति विश्वलोचनः, लयं विनाशं (एति) तथा आत्मनः कलङ्को दोष:, अस्मात् वात्सल्यात्, लयं विनाशं एति (इति) इत्थं सकलं कलाभिः सहितं, कलं शरीरं गतः प्राप्तः परमौदारिकशरीरयुक्त इत्यर्थः, कलमेशः कलस्य शरीरस्य मा लक्ष्मीः शोभा वा तस्या ईश स्वामी, अकलङ्कः रागादिदोषरहितः, अथवा सकलं पदार्थसमूहं गतः विश्वंगतः दिव्यज्ञानेन सकलं जानाति इति सकलं गतः कलं वीर्यं. अनन्तवीर्यं गतः प्राप्तः अमितबलशालीत्यर्थः । यः सर्वं जानाति स नियमरूपेण अनन्तबलं धारयति, वीर्यान्तरायकर्माभावादिति भावः । को ब्रह्मा अर्हत्परमेष्ठीत्यर्थः, कलयति जानाति निरूपयति च ।। ९७ ।।
अर्थ- जिस प्रकार अग्नि के संयोग से कलंक नाश को प्राप्त होता है उसी प्रकार वात्सल्यभाव से आत्मा का कलंक-द्वेष नाश को प्राप्त होता है ऐसा सकल – कलाओं से सहित कल - प्रमौदारिक शरीर को प्राप्त, लक्ष्मीपति, कलंकरहित जिनेन्द्र कहते हैं ।।९७||
( १६३).