________________
[९४] संसारागाधपाठीनाकरमज्जितदेहिनाम् । .
दासानगारपालानां सारराजिः सदेह ना ।। हे अनगारपालानां दास! (इयं धर्मप्रभावना) संसारागाधपाठीनाकरमज्जितदेहिनां सदा इह सारराजिः ना (अस्ति )।
संसारेति- हे अनगारपालानां दास! मुनिरक्षकाणां दास! स्वं प्रति सम्बोधनम् । (इयं धर्मप्रभावना) संसारागाधपाठीनाकरमज्जितदेहिनाम् संसार एवागाधो गभीरः पाठीनाकरो मकराकरः समुद्र इति यावत् तस्मिन् मज्जिता बुडिता ये देहिनः प्राणिनस्तेषाम्। सदा सर्वदा, इह लोके, सारराजिः श्रेष्ठरेखाङ्किता ना नौका (अस्ति) 'राजिः स्त्री पङ्क्तिरेखयोः' इति, 'नास्तु नेतरि नावि स्त्री' इति च विश्वलोचनः।।९४।।
__ अर्थ- हे मुनिरक्षकों के दास! यह धर्मप्रभावना, संसाररूपी गहरे समुद्र में निमग्न प्राणियों के लिये सदा इस संसार में श्रेष्ठ रेखाओं से अंकित नौका है।।९४।।
[९५] सद्धर्मिणि धृतसमयः वात्सल्यं वत्स इव गौः कृतसमय!।
करोत्याप्यते समयः श्रियस्तेन सदयेन समयः ।। हे धृतसम! कृतसमय ! यः वत्से गौः इव सद्धर्मिणि वात्सल्यं करोति, तेन सदयेन समयः आप्यते , श्रियः समयः च (आप्यते)।
सद्धर्मिणीति- हे धृतसम! धृता रक्षिताः समाः सधर्माणो येन तत्सम्बुद्धौ, हे कृतसमय! कृतः समयः सिद्धान्त आचारो वा येन तत्सम्बुद्धौ, यो जनः, वत्से गौः इव सद्धर्मिणि समीचीन-धर्मसहिते सधर्मणि जने, वात्सल्यं स्नेहं करोति, तेन सदयेन दयासहितेन, समयः शुद्धात्मा, आप्यते प्राप्यते, श्रियः लक्ष्म्याः अनन्तचतुष्टयरूपायाः, समयः समयनं समयः सङ्गमश्च (आप्यते) मोक्षलक्ष्मीस्तेन इति भावः ।।
___अर्थ- हे धृतसम ! सहधर्मा जनों की रक्षा करने वाले ! हे कृतसमय - आगम अथवा आचार को करने वाले ! बछड़े पर गाय के समान जो समीचीन धर्म के धारक जनों पर वात्सल्य - स्नेह करता है उस दयालु मानव के द्वारा समय-शुद्धात्मा और मोक्ष लक्ष्मी का समय - समागम प्राप्त किया जाता है ।।९५।।
अस्मिन् धृतभाव सति प्रभोऽस्तु हिंसात्मकवृत्तेर्वसतिः । लसति विहायसि वसति प्रभाकरे किं वसति वसतिः ।।
(१६२)