________________
[९२] भायाच्च तमां केन सरो रमाभालं कुङ्कुमाङ्केन ।
नानया समां केन श्रमणता गतेन मां के न ! ।। हे न ! रमाभालं कुङ्कुमाङ्केन, सरः केन, के केन समां मां गतेन श्रमणता, ना अनया (धर्मप्रभावनया) च भायात् तमाम् ।
भायाच्चेतिः हे न! हे जिन! रमाभालं ललनाललाटं, कुड्कुमावेन केशरचिह्नन, 'अङ्को रेखायां चिह्नलक्ष्मणोः' इति विश्वः, सरः कासारः, केन जलेन, के आत्मनि केन आत्मना, समां समतां मां लक्ष्मी गतेन समतालक्ष्मीपतिना इत्यर्थः, श्रमणता साधुता, तमां भायात् शोभताम् । ना पुमान्, अनया (धर्मप्रभावनया) च भायात् तमां अतिशयेन शोभताम्। 'को ब्रह्मानिलसूर्याग्नियमात्मद्योतबर्हिषु । कं सुखे वारि शीर्षे च'। 'स्त्रियां स्यान्मा रमायां च' इति च विश्वलोचनः ।।१२।।
अर्थ- हे न ! हे जिन! ललना का ललाट कुङ्कुम के चिह्न से, सरोवर जल से, श्रमणता - साधुता आत्मा में साम्यभाव रूपी लक्ष्मी को प्राप्त आत्मा से और मनुष्य इस धर्मप्रभावना से अत्यन्त सुशोभित हो।।९२।।
[९३] गङ्गा गौश्च वामृतं ददाति गङ्गयालमपि गवाऽमृतम् ।
अस्या मानवामृतं मिलति वरं चिदनुभवामृतम् ।। हे मानव! गङ्गा गौश्च अमृतं ददाति (ततः) गङ्गया गवा अपि अलं (किन्तु, अस्याः (धर्मप्रभावनायाः) अमृतं अमृतं वरं चिदनुभवामृतं च मिलति ।
गङ्गेति- हे मानव! गङ्गा भागीरथी, गौः धेनुश्च, अमृतं जलं दुग्धं च ददाति, गङ्गा जलं गौर्दुग्धं चेत्यर्थः। (ततः) गगया गवा अपि अलं पर्याप्तं, ताभ्यां प्रयोजनं नास्तीति भावः। (किन्तु) अस्याः (धर्मप्रभावनायाः) अमृतं न मृतं अमृतं अविनश्वरं अथवा अयाचितं याचनया रहितं, अमृतं मोक्षः, वरं श्रेष्ठ, चिदनुभवामृतं च चिदनुभव एवामृतं आत्मानुभूतिपीयूषं, मिलति प्राप्यते 'अमृतं मोक्षपीयूषसलिले हृद्यवस्तुनि । अयाचिते यज्ञशेषे घृते दुग्धेऽतिसुन्दरे' इति विश्वलोचनः ।। ९३ ।।
अर्थ- हे मानव! गङ्गा और गौ अमृत देती है - गङ्गा जल देती है और गौ दुध देती है, परन्तु गङ्गा और गौ बाज आवें, उनकी आवश्यकता नहीं है। इस धर्मप्रभावना से अमृत- अविनश्वर अमृतं - मोक्ष और आत्मानुभवरूप अमृत प्राप्त होता है।।९३।।
(१६१)