________________
हे स्वप! अवनप्रदायिन् ! इह अवनितले, पावनप्रसंगात् पावनः शीतलं इव श्रुतिमननात् उपयोगः पावनः भवति ।
अवनितलेति- हे स्वप! स्वम् आत्मानम् आत्मीयान् वा पाति रक्षतीति स्वपः तत्सम्बुद्धौ हे आत्मरक्षक! हे अवनप्रदायिन् ! अवनं रक्षणं प्रददातीत्येवं शीलस्तत्सम्बुद्धौ हे रक्षादानशील! अथवा अवनं आनन्दं सुखं प्रददाति इति अवनप्रदायी तत्सम्बुद्धौ । हे सुखप्रदायक! 'अवनं रक्षणे मुदि' इति विश्वलोचनः । इह अवनितले भूतले, पावनप्रसंगात् पावनस्य जलस्य प्रसंगस्तस्मात्, 'पावनं तु जले कृच्छ्रे' इति विश्वलोचनः, जलसंसर्गात्, पावनः पवन एव पावनः स्वार्थेऽण्प्रत्ययः वायुः, शीतलः शिशिर इव, अघहननात् भाविपापत्यजनात् प्रत्याख्यानमित्यर्थः । उपयोग: पावनः पवित्रः भवति । 'पावनं पावयितरि त्रिषु पूतेऽपि पावनम्' इति विश्वलोचनः । । ८६ । ।
पावन
अर्थ- हे स्वप! हे आत्मरक्षक ! हे संरक्षण देने वाले ! भगवन्! इस पृथिवीतल पर जल की संगति से जिस प्रकार पावन - वायु शीतल हो जाती है उसी प्रकार शास्त्र के मनन से उपयोग पावन - पवित्र हो जाता है ।। ८६ ।।
-
[८७]
सा श्रेयसः कषायात् प्रियाऽलसाशोषायां सकषाया ।
लसतु तामसकषायान्न कतपनममानसकषायाः ।।
हे अमानसकषायाः! सा अलसा प्रिया श्रेयसः कषायात् लसतु, उषायां सा आशा (प्राक् ) सकषाया (लसतु) (किन्तु) कतपनं तामसकषायात् न (लसतु) ।
सेति- हे अमानसकषायाः ! न विद्यन्ते मानसे हृदये कषायाः क्रोधादयो येषां ते तत्सम्बुद्धौ हे निष्कषायहृदयाः ! मुनिजनाः ! सा प्रसिद्धा, अलंसा आलस्यवती, प्रिया वल्लभा, श्रेयसः श्रेष्ठात, कषायात् अङ्गरागात् ' अस्त्री कषायो निर्यासो रसे रक्ते विलेपने । अङ्गरागे सुगन्धे तु त्रिषु स्याल्लोहितेऽपि च' इति विश्वलोचनः । लसतु शोभताम् । उषायां प्रभाते, सा प्रसिद्धा, आशा दिशा प्राचीत्यर्थः, सकषाया सलोहिता रक्तवर्णोपेतेति यावत् (लसतु) किन्तु कतपनं के सूर्ये अग्निसमीपे च तपनं तपश्चरणं 'को ब्रह्मानिलसूर्याग्नियमात्मद्योतबर्हिषु' इति विश्वलोचनः । पञ्चाग्नितपश्चरणमातापनयोगश्चेत्यर्थः, तामसकषायात् तमोगुणप्रधानकषायात् न (लसतु) रागानुरञ्जितः कायक्लेशस्तपो न शोभत इति भावः । । ८७ । ।
अर्थ- हे अमानसकषायाः ! जिनके मन में कषाय नहीं है ऐसे हे मुनीजनो ! वह अलसायी स्त्री श्रेष्ठ कषाय- अङ्गराग से सुशोभित हो, और प्रभातकाल में वह प्रसिद्ध पूर्व दिशा सकषाया - लालिमा से सहित होती हुई सुशोभित हो, परन्तु तमोगुण प्रधान कषायभाव से कतपन–पञ्चाग्नितप सुशोभित न हो ( वह कुतप - बालतप है ) ||८७ ||
(१८८)