________________
[८८]
दुर्वेदनात्मनो यातु लयतां त्वयि सा स्वतः । संवेदनाऽमुनो जातु जायतां त्वय्यसावतः । ।
उ ! अयि ! (मित्र) त्वयि असौ स्वतः जा संवेदना अमुना ( प्रतिक्रमणेन ) जायतां (अतः ) ( अमुना) आत्मनः सा दुर्वेदना तु लयतां यातु तु पादपूर्ती) ।
4
दुर्वेदनेति उ ! अयि! सम्बुद्धिवाचकौ, अयि (मित्र) इत्यर्थः । त्वयि भवति, असौ एषा, स्वतः स्वस्मात् जा समुद्भूता 'जः स्याज्जीवेति जोद्भूतौ' इति विश्वलोचनः। संवेदना स्वानुभूतिः, अमुना ( प्रतिक्रमणेन ) जायताम् समुत्पद्यताम् प्रतिक्रमणावश्यककरणेन त्वयि स्वानुभूतिः समुत्पद्यतामिति भावः । ( अतः ) ( अमुना ) आत्मनः सा गर्हिता, दुर्वेदना दुष्टा वेदना दुर्वेदना दुरनुभूतिः, तु किन्तु, लयतां लयस्य भावो लयता तां नाशं, यातु गच्छतु, तु पादपूर्ती 'तु हि च स्म ह वै पादपूरणे पूजने स्वति' इत्यमरः ।। ८८ ।।
अर्थ- अयि मित्र! आप में जो यह स्वानुभूति स्वतः समुद्भूत हुई है वह इस प्रतिक्रमण - आवश्यक से उत्पन्न हो और इसी से आत्मा की वह दुःखद वेदना विनाश को प्राप्त हो । । ८८ ।।
[८९]
भवता निजानुभवतः प्रभोः प्रभावना क्रियतां हि भवतः । `मनोऽवन् मनोभवतः क्षणविनाशविभावविभवतः । ।
भवतः क्षणविनाशविभावविभवतः मनोभवतः मनः अवन् निजानुभवतः हि भवता प्रभोः प्रभावना क्रियताम् ।
भवतेति भवतः संसारतः, क्षणविनाशविभावविभवतः क्षणे विनाशो यस्य स क्षणविनाशः, विभावस्य विकारस्य विभवो विभावविभवः, क्षणविनाशो विभावविभवो विकारसामर्थ्यं यस्य तथाभूतस्तस्मात् मनोभवतः कामात् तसिलन्तप्रयोगः, चित्तम्, अवन् रक्षन् दूरीकुर्वन्नित्यर्थः, निजानुभवतः स्वानुभूतेः हि निश्चयेन भवता त्वया, प्रभोः जिनेन्द्रस्य, प्रभावना महत्वप्रसारः क्रियताम् विधीयताम् । । ८९ । ।
मनः
"
,
अर्थ संसार से, क्षणभङ्गुरविभाव रूप विभव से तथा मनोभव - काम से मन की रक्षा करते हुए आपके द्वारा निजानुभव से प्रभु - जिनेन्द्र की प्रभावना की जावे । । ८९ ।।
[९०]
सागारकोऽप्यंसारं क्षुत्तृजार्तेषु वितरति सारम् । मत्वा किल संसारं ह्यवतरति तत् कार्ये साऽरम् ।।
(१८६)