________________
हे अकास्त !अकं पापं यस्मिन् अस्तं नष्टं इति स अकास्तः तत्सम्बुद्धौ हे अकास्त! हे पापरहित! हे अमनः! हे मनोरहितसंज्यसंज्ञिव्यपदेशरहितेत्यर्थः । असमयवर्षास्तमितं अकालवृष्ट्याीभूतम् तं प्रसिद्धं , वसुधातलं पृथिवीपृष्ठम् इतं प्राप्तं, धान्यं सस्यं यथा न फलति (तथा) हि निश्चयेन, अकालिकी अकाले कृता, नुतिः स्तुतिः, स्तमितं चञ्चलतारहितं स्थिरमिति यावत्। मितं परिमितम् अल्पमपीत्यर्थः कं सुखं न (फलति) 'स्तमितं वीतचाञ्चल्येऽप्याीभूतेऽपि वाच्यवत्' इति विश्वलोचनः।। ८४ ।। .. अर्थ- हे अकास्त! हे निष्पाप! हे अमनः! मनो व्यापार से रहित! जिस प्रकार असमय की वर्षा से भीगे पृथिवीतल को प्राप्त हुआ धान्य फलता नहीं है; उसी प्रकार निश्चय से अकाल - असमय में की हुई स्तुति किञ्चित् भी स्थायी सुख को नहीं फलती है।।८४।।
[८५] अशने संदंशनेन रस इनेन जयो वै सदंशनेन ।
प्राप्यतेऽदंशनेन तथा कमगेनाऽदंशनेन ।। हे अंदश! न! इन ! यथा अशने सदंशनेन रसः प्राप्यते सदंशनेन इनेन वै जयः (प्राप्यते)तथा अदंशनेन अगेन कं (प्राप्यते)।, . अशन इति- हे अदंश! न विद्यते दंशो दोषो यस्य सः अदंशस्तत्सम्बुद्धौ हे निर्दोष! ‘दंशः सन्नाह वनमक्षिकयोर्भुजगक्षते । दोषेऽपि खण्डेन दंशो दंशो मर्मणि च स्मृतः' इति विश्वलोचनः। हे न ! हे पूज्य! हे इन! हे स्वामिन् ! ‘भर्तेन्द्र इन ईशिता' इति धनञ्जयः। यथा अशने भोजने, सदंशनेन सदन्तेन जनेन 'दंशनः शिशिरे पुंसि दंशनं कवचे रदे' इति विश्वः, रसः स्वादः (प्राप्यते) अथवा अशने यथा दंशनेन दन्तेन स प्रसिद्धः रसः स्वादः प्राप्यते सदंशनेन कवचसहितेन, इनेन राज्ञा, वै निश्चयेन, जयः (प्राप्यते) तथा अदंशनेन खण्डरहितेन अखण्डेनेत्यर्थः, अगेन अस्य भगवत: गं गीतं तेन भगवत्स्तुत्येत्यर्थः 'गं गीते शास्त्रगातरि' इति विश्वलोचनः । कं सुखं (प्राप्यते) ।।८५।।
• अर्थ- हे अदंश! हे निर्दोष! हे पूज्य! स्वामिन् ! जिस प्रकार भोजन में दन्तसहित मनुष्य के द्वारा रस - स्वाद प्राप्त किया जाता है और कवच सहित राजा के द्वारा निश्चयतः विजय प्राप्त की जाती है उसी प्रकार अखण्ड स्तवन से सुख प्राप्त किया जाता है।।८५।।
[८६] अवनितल इव पावनप्रसंगाद् भवति शीतल: पावनः । अघहननात स्वपावनप्रदायिन्नुपयोगः पावनः ।।
(१८७)