________________
समधीत्य, सदा सर्वदा, समतां मोहक्षोभरहिततां पक्षातीततां वा, व्रजेत् प्राप्नुयात् (चेत्) यत् कारणात् स दरं भयं मुक्त्वा निःशङ्को भूत्वेत्यर्थः, विदा ज्ञानेन, समं सार्धं, नतां नस्य भावो नता तां जिनत्वं तीर्थकरत्वमिति यावत्, भजेत् प्राप्नुयात्, ( वा निश्चये ) ' नकारो जिनपूज्ययोः' इति विश्वलोचनः । प्रवचनभक्तिप्रभावेण जनस्तीर्थकरो भवतीति भावः । । ८२ ।।
अर्थ- यदि मनुष्य, आदर से जिनागम का आश्रय ले साम्यभाव को प्राप्त हो तो वह दर-भय छोड़कर ज्ञान के साथ नता - पूज्यता अथवा जिनेन्द्र - तीर्थङ्कर पद को प्राप्त हो सकता है, यह निश्चय है ||८२||
[८३]
निर्दोषो भुवि सुरभिः सज्जनकण्ठमेति गुणेन सुरभिः । तथेह समता सुरभिर्न च सुरभीति नाम्ना सुरभिः । ।
यथा इह भुवि निर्दोषः सुरभिः, गुणेन सुरभिः सुरभीति नाम्ना सुरभिः सज्जनकण्ठं एति, तथा च समता (सज्जनकण्ठं एति) न सुरभिः (सज्जनकण्ठं एति)
निर्दोष इति यथा इह भुवि निर्दोषः मलरहितः सुरभिः कनकं सुवर्णं सज्जनकण्ठं समेति। सुरभिः चम्पकपुष्पं, गुणेन सूत्रेण, सज्जनकण्ठे शोभते इति । सुरभीति नाम्ना सुरभिः मातृभेदः गौः 'गोमाता' इति सज्जनकण्ठम् एति । तथा च समता माध्यस्थ्यवृत्तिः सज्जनकण्ठमेति सत्सु प्रशंसां प्राप्नोति इति यावत् । किन्तु न सुरभिः मद्यं मदिरां सज्जनकण्ठं समेति तामसराजसप्रवृत्तिः सज्जनैः न समाद्रियते चेति भावः । 'सुरभिश्चम्पके चैत्रे वसन्ते गन्धके कवौ । स्वर्णे जातीफले चाब्जे त्रिषु मद्यसुगन्धयो:' इति विश्वलोचनः । । ८३ ।।
अर्थ- जिस प्रकार इस पृथिवी पर निर्दोष सुरभि - स्वर्ण अपने गुण से हार बनकर सज्जन के कण्ठ को प्राप्त होता है, सुरभि - चम्पा गुण- सूत्र में गुम्फित हो सज्जन के कण्ठ को प्राप्त होता है और 'सुरभि' इस नाम से प्रसिद्ध सुरभि - कामधेनु मनोरथों को पूर्ण करने वाले गुणों से सज्जन के कण्ठ को प्राप्त होती है उसी प्रकार समता - साम्य परिणति सज्जन के कण्ठ को प्राप्त होती है, सुरभि - मदिरा नहीं ।। ८३ ।।
[८४]
असमयवर्षास्तमितं धान्यं वसुधातलममनस्तमितम् ।
फलति न कमपि स्तमितं ह्यकालिकीनुतिरकास्त! मितम् ।। हे अकास्त! अमनः! असमयवर्षास्तमितं तं वसुधातलम् इतं धान्यं यथा न फलति (तथा) हि अकालिकी नुतिः स्तमितं मितं कं अपि न ( फलति ) ।
(१८६ )