________________
मुक्ता इति- (हे जिनागम!) ते प्रभावतः माहात्म्यात्, जनाः जिनाः तीर्थकराः संभवन्ति सम्यक प्रकारेण जायन्ते । भावतः भवः संसारः भव एव भावः तस्मात् संसारात् मुक्ताः संभवन्ति । रागादेः विभावतश्च रागद्वेषादिरूपविभावपरिणतेश्च (मुक्ताः संभवन्ति) अतः अस्मात् कारणात्, अकलये अकस्य दुःखस्य पापस्य वा लयो नाशो यस्मिन् स तस्मिन् , विभौ लोकोत्तरसामर्थ्यसहिते, त्वयि (अहं) रतः अनुरक्तः लीनो वा भवामि । 'अकं दुःखाघयोः' इति विश्वलोचनः ।।८।।
___. अर्थ- हे जिनागम ! तेरे प्रभाव से सामान्य मनुष्य जिन हो जाते हैं, भव से मुक्त हो जाते हैं और रागादिक विभाव से छूट जाते हैं; अतः अकलय - दुःख का विनाश करने वाले तुझमें रत लीन होता हूँ ।।८०।।
[८१] . दुःखमनुभंवन्नवसु ह्यनधिगतागमोऽयं निधिषु नवसु ।
प्राप्तवान् सुखं नवसुभानतो विमलज्ञानवसु ।। ८१।। अयं अनधिगतागम: असुमान् हि नवसु निधिषु अवसु दुःखं अनुभवन् विमलज्ञानवसु सुखं अतः नो प्राप्तवान् ।
दुःखमिति- अयम् एषः, अनधिगतागम: अनधिगत: अप्राप्तः आगमो येन सः आगमज्ञानरहितः, असुमान् प्राणी, हि निश्चयेन, नवसु निधिषु कालमहाकालादिषु नवस्वपि निधिषु (प्राप्तेषु) अवसु दुःखं न विद्यते वसु धनं यत्र तत् दुःखं दारिद्र्यकष्टम् , अनुभवन्, 'वसुतोये धने मणौ' इति विश्वः। नवसु निधिष्वपि असंतुष्टः सन् विमलज्ञानवसु विमलज्ञानमेव वसु धनं यत्र तत्, सुखम्, अतः कारणात् नो प्राप्तवान् नालभत ।।८१।।
अर्थ- जिनागम को नहीं जानने वाला प्राणी निश्चय से नौ निधियों के रहने पर भी अवसुदुःख-निर्धनता के दुःख का अनुभव करता हुआ निर्मल ज्ञानरूपी धन के सुख को इसी कारण प्राप्त नहीं कर सका है ||८१।।
[८२] जिनागमं सदा श्रित्वा सादरं समतां व्रजेत् ।
यन्ना समं विदा मुक्त्वा वादरं स नतां भजेत् ।। ना जिनागमं श्रित्वा सादरं समतां व्रजेत् (चेत्) यत् स दरं मुक्त्वा विदा समं नतां भजेत् (वा निश्चये)। जिनागममिति- ना नरः जिनागमं सादरं सविनयं यथा स्यात्तथा जिनसिद्धान्तं
(१८५)