________________
खगण इति- हे कामहा! कामं जहातीति कामहाः तत्सम्बुद्धौ जितकाम! अत्र अस्मिन् लोके, त्वया, खगण: इन्द्रियसमूहः, . लयं विनाशम्, इतो गतः (अतः) दृङ्महालयं सम्यग्दर्शनमहाभवनं, इतः प्राप्तः असि, तया प्रसिद्धया श्रिया मोक्षलक्ष्म्या, महालयं महांश्चासौ लयश्चेति महालयस्तं महाश्लेषं क्रीडां कुरुषे विदधासि (अतः) इनः स्वामी असि, त्वा भवन्तं महालयं तीर्थस्वरूपं महानामुत्सवानामालयस्तं अमन्दानन्दभवनमित्यर्थः। (अहम्) अये शरण्यबुद्ध्या प्राप्नोमि 'अय गतौ' इत्यस्य लडुत्तमे प्रयोगः। 'लयो नृत्यादिसाम्ये स्याद्विनाशाश्लेषयोर्लयः' इति विश्वलोचनः। 'मह उत्सवतेजसोः' इति विश्वलोचनः। 'खमिन्द्रियं हृषीकं च स्रोतोऽक्षं करणं विदुः इति धनञ्जयः ।।६।।
अर्थ- हे मदनविजयिन्! इस जगत् में आपके द्वारा खगण-इन्द्रियों का समूह लय – विनाश को प्राप्त हुआ है अतः आप सम्यग्दर्शन रूप महाभवन को प्राप्त हैं। आप उस -अनिवर्चनीय मोक्षलक्ष्मी के साथ आलिङ्गन करते हैं अतः आप इन- स्वामी हैं। इसीलिये महालय-उत्सवों के आलय स्वरूप आपको प्राप्त होता हूँ -आपकी शरण में आता हूँ ।।६०।।
_ [६१] दक्षो दूरोऽक्षरतोऽतितापात् क्षितिं स्रवत् क्षरं क्षरतः ।
तथा मामिहारक्षरतो न रक्षरक्षाभरोऽक्षरतः ।। (यथा) इह क्षरतः स्रवत् क्षरं अतितापात् क्षितिं (रक्षति) तथा (त्वं) अक्षरतः दूरः दक्षः न अक्षरतः अक्षरतः अक्षरः मां रक्ष रक्ष।
दक्ष इति- (यथा) येन प्रकारेण इह जगति, क्षरतः मेघात्, स्रवत् क्षरत् क्षरं जलं, अतितापात् तीव्रनिदाघात्, क्षितिं पृथिवीं (रक्षति) तथा (त्वं) अक्षरतः अक्षरेभ्य इति अक्षरतः पञ्चम्यास्तसिल् अक्षरसमूहात्, दूरः दूरवर्ती वचनागोचर इत्यर्थः न अक्षरतः अक्षेषु इन्द्रियेषु रत इति अक्षरतः इन्द्रियविषयासक्तो न भवति, अक्षरतः अक्ष्णोति जानाति इत्यक्ष आत्मा तस्मिन् रतः अक्षरः न क्षरतीति अक्षरः अविनाशी, मां रक्ष रक्ष वायस्व त्रायस्व । 'क्षरो मेघे क्षरं नीरे' इति विश्वलोचनः। 'अक्षरं न द्वयो मोक्ष ब्रह्मणि व्योमवर्णयोः' इति, 'अक्षं स्यादिन्द्रिये क्लीबं' इति च विश्वलोचनः ।। ६१।।
अर्थ- जिस प्रकार मेघ से झरता हुआ पानी तीव्र तपन से पृथिवी की रक्षा करता है उसी प्रकार अक्षरतो दूर-अक्षरों से दूर रहने वाले- वचनागोचर, दक्ष – समर्थ अथवा चतुर, न अक्षरतः इन्द्रियों में अनासक्त, अक्षरत-आत्मरत और अक्षर-अविनाशी आप मेरी रक्षा करें, रक्षा करें ।।६१।।
(१७५)