________________
[५८] श्रेयसा मनसा साधोः सेवा विधीयते मया ।
जायतां मयि साऽबन्धोऽहं वा सुधीर्यते यया ।। हे यते! श्रेयसा मनसा साधोः सेवा मया विधीयते, यया अहं अबन्धः, मयि सा सुधीः जायतां वा (इतिममानुमानं सम्यक्)।
श्रेयसेति- हे यते! हे साधो! श्रेयसा श्रेष्ठेन, मनसा हृदयेन, साधोः तपस्विनः, सेवा वैयावृत्यं, मया काव्यका, विधीयते क्रियते, यया भावनया, अहम् अबन्धः बन्धरहितः स्यामेति शेषः। मयि काव्यकर्तरि, सा वैयावृत्यपरायणा, सुधीः प्रशस्तबुद्धिः, जायतां वा समुत्पद्यतां वा (इति ममानुमानं सम्यक्) ।।५८।।
अर्थ- हे यते! श्रेष्ठ मन से मेरे द्वारा साधु की सेवा की जावे, जिस सेवा से मैं बन्धरहित हो जाऊं और मुझ में वह सुबुद्धि उत्पन्न हो सके ||५८।।
[५९] . . स्तुता यतिपतिना गता वस्तुगताश्च दशा गतानागताः ।
निजं जयन्तु ना गता यद्धियं वाधां विना गताः ।। . आगताः गताः अनागता च वस्तुगताः दशाः वाघां विना यद्धियं गताः (ते) नाः ये निजं गताः यतिपतिना स्तुताः जयन्तु ।
स्तुता इति- आगता वर्तमानाः, गता अतीताः, अनागताः च भविष्यत्कालसम्बन्धिन्यश्च, वस्तुगताः द्रव्यगताः दशाः अवस्थाः पर्यायाः इत्यर्थः, वाधां विना, निर्बाधरीत्या, यद्धियं यदीयबुद्धिं गताः प्राप्ताः त्रिकालज्ञा इत्यर्थः (ते) ना जिनेश्वराः, 'नकारो जिनपूज्ययोः' इति विश्वलोचनः। ये निजं स्वस्वरूपं गताः प्राप्ताः, यतिपतिना यतिनायकेन गणधरपरमेष्ठिना, स्तुताः स्तवनविषयीकृताः, जयन्तु सर्वोत्कर्षेण वर्तन्ताम् ।। ५९।। __अर्थ- अतीत, अनागत और वर्तमान सम्बन्धी द्रव्यगत पर्यायें बिना किसी बाधा के जिनके ज्ञान में प्राप्त हैं,जो निज स्वभाव को प्राप्त कर चुके हैं और यतिपतिगणधर देवों के द्वारा जो स्तुत हैं; वे जिनेन्द्र जयवन्तं हों ।।५९।।
[६०] खगणः कामहा! लयं त्वयेत इन इतोसि दृङ्महालयम् ।
श्रिया तया महालयं कुरुषेऽये त्वात्र महालयम् ।। हे कामहा! अत्र त्वया खगणः लयं इतः (अतः) दृङ्महालयं इतः असि, तया श्रिया महालयं कुरुषे (अतः) इनः असि (अतः) त्वा महालयं (अहं) अये।
(१७४)
-