SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ समौक्तिकोऽत्र कलिङ्गःकलितः कमनीयमणिना कलिङ्गः।। दुर्लभो भुवि कलिङ्गस्तथा युतोऽनेन सकलिङ्गः।। यथा अत्र भुवि समौक्तिकः कलिङ्गः, कमनीयमणिना कलितः कलिङ्गः दुर्लभः, तथा अनेन युतः (वैयावृत्यान्वितः) सकलिङ्गः कलिङ्गः दुर्लभः । समौक्तिक इति- यथा येन प्रकारेण अत्र भुवि अस्यां वसुधायां, समौक्तिका मौक्तिकः सहितः कलिङ्गो मतङ्गजः हस्तीत्यर्थः, कमनीयमणिना मनोहरफणारत्लेन, कलितः सहितः, कलिङ्गः भुजङ्गः, दुर्लभः दुष्प्राप्यः, तथा अनेन वैयावृत्येन, युतः अन्वितः, सकलिङ्गः कस्य आत्मनो लिङ्गं चिह्न कलिङ्गं जातरूपमुद्रा तेन सहितः सकलिङ्गः, कलिङ्गः विदग्धः चतुरो जन इत्यर्थः, दुर्लभो दुष्प्राप्यः । कलिङ्गो भूमिकूष्माण्डे मतङ्गजभुजङ्गयो', 'नीवृ॰ कलिङ्गस्तु त्रिषु दग्धविदग्धयोः' इति च विश्वलोचनः।।५६ ।। अर्थ- जिस प्रकार इस भूमि पर भोतियों सहित कलिङ्ग-हाथी, और सुन्दर मणि से सहित कलिङ्ग-नाग दुर्लभ है उसी प्रकार इस वैयावृत्य से सहित सकलिङ्ग-निर्ग्रन्थ-नग्नमुद्रा से सहित कलिङ्ग-चतुर जन दुर्लभ है ।।५।। [५७] रतेन निजे पदे न न्विदं शोभते च वस्तुतोऽपदेन । सरसिजं षट्पदेन पदेन जनपदोऽलं पदेन ।। हे न! वस्तुतः निजे पदे रतेन अपदेन नु इदं शोभते। सरसिजं षट्पदेन, जनपदः पदेन यथा (शोभते) पदेन अलम् (अस्तु)। रतेनेति- हे न! हे पूज्य! वस्तुतः परमार्थतः, निजे पदे स्वस्वभावेन रतेन, अपदेन पदं वस्त्ररूपं वस्तु न विद्यते यस्य सः अपदः तेन अपदेन दिगम्बरेण निर्ग्रन्थसाधुनेत्यर्थः, नु निश्चयेन, इदं वैयावृत्यकरणं शोभते। सरसिजं कमलं, षट्पदेन भमरेण, जनपदः देशः, . पदेन व्यवसायेन उद्योगेनेत्यर्थः । यथा येन प्रकारेण (शोभते) पदेन शब्देन व्यर्थवाग्जालेनेति भावः अलं पर्याप्तम् (अस्तु) व्यर्थेन शब्दाडम्बरेण को लाभः? नैर्ग्रन्थ्येनैवेदं वैयावृत्यं विशोभते इति भावः। 'पदं वाक्ये प्रतिष्ठायां व्यवसायापदेशयोः । पादातचिह्नयोः शब्दे स्थानत्राणाव्रिवस्तुषु' इति विश्वलोचनः ।। ५७।।। अर्थ- हे न! पूज्य! जिनवर! यथार्थतः निज स्वभाव में लीन अपद-दिगम्बर-निर्ग्रन्य साधु से ही यह वैयावृत्य सुशोभित होता है, उस प्रकार, जिस प्रकार कि षट्पद - भ्रमर से कमल और पद-व्यवसाय-उद्योग से जनपद-देश सुशोभित होता है।।५७।। (१७३)
SR No.002457
Book TitlePanchshati
Original Sutra AuthorN/A
AuthorVidyasagar, Pannalal Sahityacharya
PublisherGyanganga
Publication Year1991
Total Pages370
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy