________________
तदूनं (साधुसेवाऽकरणशीलं) न अञ्चे (किन्तु) जितमनःकुमुदं मम उरः कुमुदं इतं तं (जिनं) अञ्चे, किं बन्धुः कुमुदं अयति? किं कुमुदं नलिनीदलनन्दनं अयति ? (नेत्यर्थः)
ममेति- तदूनं तेन ऊनस्तदूनस्तं साधुसेवाऽकरणशीलमित्यर्थः। न अञ्चे न पूजयामि, (किन्तु) जितमनःकुमुदं जिता मनसः कुमुद् कुत्सितहों येन तं विषयानन्दरहितमित्यर्थः, मम, उरकुमुदं हृदयकैरवम्, इतं प्राप्तं, तं (जिन) अञ्चे पूजयामि। किं बन्धुः परिवारजनः,कुमुदं कृपणं, अयति गच्छति प्रेम्णा प्राप्नोतीत्यर्थः, किं कुमुदं कैरवं, नलिनीदलनन्दनं सूर्य, अयति गच्छति प्रेम्णा प्राप्नोति? अपि तु नेत्यर्थः। 'अयति' इति रूपं ‘इट किट कटी गतौ' इत्यत्र प्रश्लिष्टस्य इधातो रूपम् । 'कुमुदं कैरवे क्लीवं कृपणे कुमुदन्यवत्' इति विश्वलोचनः ।। ५४।। ___ अर्थ- साधुसेवा से रहित मानव की मैं पूजा नहीं करता, किन्तु मन के कुमुद्-कुत्सित हर्ष- विषयानन्द को जीतने वाले अपने हृदयकुमुद में आये उन जिनेन्द्र की पूजा करता हूँ। क्या बन्धु-कुटुम्ब परिवार कुमुद-कृपण मनुष्य के पास जाता है ? अथवा कुमुद-कैरव सूर्य के पास जाता है। अर्थात् नहीं ।।५४।।
हरति दययाऽमा नतः प्ररक्षन्नमनो न! मनो मानतः ।
यो मुनिगतामानतः स मुक्तिमेत्यघतोऽमानतः ।। हे अमन न! यः दयया अमा नतः मानतः मनः प्ररक्षन् मुनिगतामान् हरति (सः) अतः अमानतः अघतः मुक्तिं एति।
हरतीति- हे अमनः ! न विद्यते मनो यस्य सः अमनाः तत्सम्बुद्धौ हे सर्वज्ञ ! यः जनः, दयया करुणया, अमा सह, नतः नम्रीभूतः, मानतः गर्वात्, मनः चित्तं, प्ररक्षन् प्रकर्षेण रक्षन् मुनिगतामान् मुनीन् गताः प्राप्ताः मुनिगताः अमा रोगाः मुनिगतामाः तान् मुनिगतामान् साधुसमुद्भवरोगान् हरति दूरीकरोति । (सः) अतः मुनिजनवैयावृत्यकरणान् हेतोः अमानतः न विद्यते मानं प्रमाणं यस्य सः अमानः अपरिमितः तस्मात्, अघतः पापात् मुक्तिं निवृत्तिम्, एति प्राप्नोति । अथवा मानतः मानकषायात् निवृत्तिम् एति। अथवा अमानतः ईषत् मानं प्रमाणं अमानं क्षायोपशमिकज्ञानमिति यावत्, तस्मात् अल्पज्ञानात् मुक्तिम् एति, केवलज्ञानी भवतीति भावः ।।५५।।
अर्थ- हे अमनः न ! हे भावमन से रहित जिनदेव ! जो दया के साथ नम्रीभूत तथा मान-गर्व से मन की रक्षा करता हुआ मुनियों के रोगों को हरता है- दूर करता है वह इसके फलस्वरूप अपरिमित पाप से मुक्ति पा जाता है ||५५।।
(१७२).