________________
भव्येति- हे दिव्यविमुक्तिद! विच्च मुक्तिश्चेति विमुक्ती, दिव्ये विमुक्ती इति दिव्यविमुक्ती ते ददातीति दिव्यविमुक्तिदस्तत्सम्बुद्धौ हे दिव्यविमुक्तिद! दिव्यज्ञानमोक्षद! उमेश! उमायाः कीर्तेः ईशः उमेशस्तत्सम्बुद्धौ कीर्तिस्वामिन् ! क! ब्रह्मन्! भगवन्नित्यर्थः । भव्यकौमुददोषेशः कुमुदानां समूहः कौमुदं भव्या एव कौमुदं भव्यकौमुदं तस्य दोषेशश्चन्द्रः, कामधेनुः सुरगवी, सुरागकः सुराणां देवानाम् अगः सुरागः, सुराग एव सुरागकः कल्पवृक्षः (इदं साधुसमाधिकरणं) मां अटेत् तरां अतिशयेन प्राप्नुयात् यायात्। नु निश्चये, तु पादपूर्ती। ‘उमा गौर्यामतस्यां च हरिद्राकान्तिकीर्तिषु' इति विश्वलोचनः ।। ५२।।
अर्थ- हे दिव्यज्ञान और मुक्ति के दाता! हे कीर्ति के स्वामी! हे ब्रह्मन् – हे जिनेन्द्र ! भव्यरूप कुमुदसमूह को चन्द्रमा, कामधेनु और कल्पवृक्ष रूप यह साधुसमाधि मुझे निश्चय से अच्छी तरह प्राप्त हो ।।५२।।
[५३] यथोद्यतमिह रोहितः सततं जगतां नु हिताय रोहितः ।
वान्तस्वार्थरोहितः सत्सेवको भव परो हितः ।। -यथा इह रोहितः जगतां हिताय रोहितः नु उद्यतः तथा (त्वमपि) वान्तस्वार्थरोहितः (भवन्) (जगतां) हितः परः सत्सेवकः भव । ___यथोद्यत इति- यथा येन प्रकारेण, इह लोके, रोहितः वीरः राजेत्यर्थः जगतां लोकानां, हिताय कल्याणाय, उद्यतः तत्परः, यथा (च) रोहितः सूर्याः जगतां हिताय नु निश्चयेन (उद्यता उदिताः). भवन्ति, तथा (त्वमपि) वान्तस्वार्थरोहितः वान्तं स्वार्थ एव रोहितं रुधिरं येन तथाभूतः (भवन्)जगतां जगज्जीवानां हितः कल्याणकारकः परः उत्कृष्टः सत्सेवकः सतां साधूनां सेवको वैयावृत्यकरः, भव एधि। 'सरलेन्द्रायुधे वीरे रुधिरेऽपि च रोहितम्' इति, 'रोहिदर्के पुमानेव' इति च विश्वलोचनः ।। ५३ ।।
___अर्थ- जिस प्रकार इस जगत् में रोहित- वीर राजा जगत् जनों के हित के लिये उद्यत रहता है अथवा उगते हुए रोहित - सूर्य जगत् के हित के लिये तत्पर हैं, उसी प्रकार हे आत्मन् ! तू स्वार्थरूपी रुधिर को वान्त करता हुआ जगत् का हितकारी उत्कृष्ट सेवक हो।।५३।।
[५४] ममतमित-मुरः कुमुदं तदूनमच्चे न जितमनःकुमुदम् । बन्धुरयति किं कुमुदं नलिनीदलनन्दनं कुमुदम् ।।