________________
[६२] मोहोरगरसायनं मुक्तेर्यद्दर्शितमुरसाऽयनम् ।
यजेऽलं च रसायनं निरञ्जनं नं स्वरसाय नम् ।। मुक्तेः अयनं यद्दर्शितं मोहोरगरसायनं निरंजनं नं नं स्वरसाय उरसा यजे (किन्तु) रसाय अलम् ।
मोहोरगेति- मुक्तेः मोक्षस्य अयनं वर्त्म 'अयनं वर्ममार्गाध्वपन्थानः पदवी सृतिः' इत्यमरः । यद्दर्शितं येन दर्शितं येन प्रकटितमित्यर्थः, मोहोरगरसायनं मोह एव उरगः सर्पस्तस्य रसायनो गरुडस्तं 'गरुडेऽपि रसायनः' इति विश्वलोचनः। निरज्जनं निष्कलङ्घ, नं पूज्यं, नं जिनं, स्वरसाय आत्मप्रीत्यै, उरसा हृदयेन, यजे पूजयामि, (किन्तु) रसाय इन्द्रियविषयाय रागाय वा, अलं पर्याप्तम् । ‘रसः स्वादेऽपि तिक्तादौ शृङ्गारादौ द्रवे विषे। पारदे धातुवीर्याम्बुरागे गन्धरसे तनौ' इति विश्वलोचनः ।। ६२ ।। ___अर्थ- मुक्ति का मार्ग जिसने दिखाया है जो मोहरूपी सर्प को रसायन-गरुड़ हैं, कर्मकालिमा से रहित हैं और पूज्य हैं ऐसे जिनेन्द्र की मैं आत्मप्रीति के लिये-स्वान्तःसुखाय हृदय से पूजा करता हूँ। रस-इन्द्रियसुख मेरे लिये अपेक्षित नहीं है।।६२।।
[६३] स्वीयं मनो जहार गुणमणिमयं पुनर्मनोऽज! हारम् ।
गतोऽस्ति मनोजहाऽरं न नंक्षति मेऽमनोऽज ! हारम् ।। । हे मनोजहा! अमनः मनो! अज! अज! (भवान्) स्वीयं मनः जहार पुनः गुणमणिमयं हारं गतः अस्ति (इति हेतोः) मे रं अरं किं न नंक्ष्यति ? हा।
स्वीयमिति- हे मनोजहा! कामहा! कामविघातकेत्यर्थः, अमनः न विद्यते मनो यस्य सः अमनाः तत्सम्बुद्धौ हे मनोव्यापाररहित! मनो! मनुसंज्ञाधारक! अज! न जायते इति अजः तत्सम्बुद्धौ हे अज! जन्मातीत! अज! हे आदिजिनेन्द्र! (भवान्) स्वीयं स्वकीयं, मनो जहार मनो हृतवान् स्वकीयमनोविषयसंकोचं कृतवान्, पुनः समुच्चये, गुणमणिमयं सम्यक्त्वादिगुणमणिनिर्मितं हारं मौक्तिकस्रजं, गतः प्राप्तः अस्ति, (इति हेतोः) मे मम रं दुःखं कामानलं वा, अरं शीघ्रं किं न नंक्ष्यति? नष्टं न भविष्यति, अपि तु भविष्यत्येव । इति हा दुःखम् । ‘रस्तु कामानले वह्नौ' इति विश्वलोचनः। ‘लघु क्षिप्रमरं द्रुतम्' इत्यमरः। हे भगवन्! भवान् मनोजहा कामविघातकोऽस्ति किन्तु मम मनोज कामं न नाशयति, इति दुःखं मम मनसि वर्तते इति भावः। प्रथमचरणेऽनुस्वारहीनता यमकभङ्गाय नालम् ।।६३।।
अर्थ- हे मनोजह्य! कामविनाशक! हे मनोव्यापार से रहित! हे अज!
(१७६)