________________
[४६]
शान्वितं विदो युक्तं सत् तपो गीयते ह्यतः ।
आशातीतं ह्यदो व्यक्तं पूतधीर्गीर्यते सतः ।। ४६ ।।
उ ! पूतधीः ! यते ! दृशान्वितं विदा युक्तं हि अतः आशातीतं व्यक्तं हि अदः सत् तपः गीयते इति सतः गीः ।
1
दृशान्वितमिति- उ सम्बुद्धौ पूतधीः ! हे पवित्रबुद्धे ! हे यते ! भो साधो ! दृशा सम्यग्दर्शनेन अन्वितं सहितं, विदा सम्यग्ज्ञानेन युक्तं हि निश्चयेन, अतः अव कारणात्, आशातीतं तृष्णारहितं, व्यक्तं स्पष्टं हि अदः प्रसिद्धं, सत् तपः समीचीनं तपः गीयते निगद्यते, इतीत्थं सतः साधोः गीः वाणी अस्तीति शेषः । सम्यग्दर्शनसम्यग्ज्ञानसहितं भोगाकाङ्क्षातीतमेव च तपः प्रशस्यत इति यावत् । । ४६ । ।
अर्थ- हे पवित्र बुद्धि से युक्त ! जो सम्यग्दर्शन से सहित है, सम्यग्ज्ञान से युक्त है और इसीलिये जो आशातीत - तृष्णा से परे है, सुव्यक्त है, वही उत्तम तप कहलाता है, ऐसी साधु की वाणी है || ४६||
[४७]
साधोः समाधिकरणं सुखकरं गुणानामाधिकरणम् । न कृतागमाधिकरणं करणोन ! नु कामाधिकरणम् ।।
हे कृतागम ! करणोन ! सुखकरं गुणानाम् आधिकरणं कामाधिकरणं, न आधिकरणं च नु साधोः समाधिकरणं (अस्ति) |
साधोरिति- हे कृतागम! कृत आगमो येन तत्सम्बुद्धौ हे रचितशास्त्र ! हे करणोन ! करणैरिन्द्रियैः इन्द्रियविषयैरित्यर्थः ऊनो रहितस्तत्सम्बुद्धौ । सुखकरं सुखोत्पादकम्, गुणानां वात्सल्यादीनाम् आधिकरणम् अधिक्रियते यस्मिन् तदधिकरणम्, अधिकरणमेव आधिकरणम् स्वार्थेऽण्प्रत्ययः आधारस्थानम्, कामाधिकरणं कामानां मनोरथानाम् आधिकरणं पूरकम्, न आधिकरणं न मानसिकव्यथाया आधार, च समुच्चये, नु वितर्के, समाधिकरणं साधूनां सुस्थिरीकरणम् ( अस्ति ) ।। ४७ ।।
अर्थ- हे कृतागम! आगम के रचयिता ! हे करणोन ! इन्द्रियविषयों से रहित ! जो सुखकारी है, गुणों का आधार है, काम - मनोरथों का पूरक है और मानसिकव्यथा को करने वाला नहीं है वही साधु का समाधिकरण है - साधुसमाधि नामक भावना है।।४७।।
[४८]
सर्वमन्यद् व्यलीकं ह्यदो विहाय विपश्चितां व्यलीकम् । अताम्येतद् व्यलीकं कदाप्यनिच्छन् भुव्यलीकम् ।।
(१६८)