________________
[४४] सतेति किं न वा सितं नैत्ययो रसाद्धमतां वासितम् ।
उपधिना न नु वासितं तपसोऽपि च सिततां वासितम् ।। वासितं अयः रसात् हेमतां न एति। उपधिना सितं वासितं अपि तपसः सिततां न एति, इति सता किं न नु सितं? सितमित्यर्थः । वा वा समुच्चये।
_ सतेति- वासितं वसनवेष्ठितम्, अयः लोहः, रसात् रसायनात्, हेमतां सुवर्णत्वं, न एति न प्राप्नोति। उपधिना परिग्रहेण सितं बद्धं सहितमित्यर्थः वासितं ज्ञानं परिग्रहवासनासहितमित्यर्थः। अपि तपसः तपश्चरणतः सिततां सितस्य भावः सितता उज्ज्वलता ताम्, न एति न प्राप्नोति केवलज्ञानं न याति । इतीत्थं सता साधुना किं न नु सितं किं न ज्ञातं, न इति वितर्के, सितमित्यर्थः। वा वा समुच्चये। 'वासितं विहगारंवे। ज्ञाने त्रिष्वेव वसनवेष्ठिते सुरभीकृते।' 'सितं श्वेतसमाप्तयोः। त्रिषु ज्ञानेऽपि बद्धेऽपि' इति च विश्वलोचनः ।। ४४।।
____ अर्थ- वस्त्र से वेष्टित लोहा रसायन से सुवर्णता को प्राप्त नहीं होता और परिग्रह से बद्ध-सहित ज्ञान तप की उज्ज्वलता को प्राप्त नहीं होता, ऐसा क्या साधु ने नहीं जाना ?।।४४||
[४५] यथा दहति सदागतिप्रेरितो वनजो वनं सदागतिः ।
विधिततिमिति सदागतिः सदागतिष्वाह सदा गतिः ।। सदागतिप्रेरितः वनजः सदागतिः यथा वनं दहति तथा (तपः) विधिततिं (दहति) इति सदागतिषु सदागतिः सदागतिः आह ।।
यथेति- सदागतिप्रेरितः वायुप्रेरितः, वनजो वनोत्पन्नः, सदागतिः अग्निः, यथा येन प्रकारेण, वनं काननं, दहति भस्मसात्करोति, तथा (तपः) विधिततिं कर्मसमूह, (दहति), इतीत्थं, सदागतिषु सदागतिः मुनिः तेषु मुनिषु, सदागतिः ईश्वरः इति यावत्, आह जगाद। 'सदागतिर्गन्धवाहे निर्वाणेऽपि सदीश्वरे' इति विश्वलोचनः। ।।४५।।
अर्थ- जिस प्रकार सदागति-वायु से प्रेरित वन की सदागति- अग्नि वन को जला देती है, उसी प्रकार तप कर्मसमूह को जला देता है-इस प्रकार सदागति-मुनियों में सदागति-ईश्वर स्वरूप सदागति-मुनि ने कहा है।
(१६७)