________________
विपश्चितां अदः विहाय हि अन्यद् सर्वं व्यलीकं व्यलीकं (अस्ति अतः) भुवि अलीकं व्यलीकं कदापि अनिच्छन् एतत् अतामि ।
सर्वमिति- विपश्चितां विदुषां 'विद्वान् विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः' इत्यमरः। अदः एतत्, समाधिसाधनम् विहाय त्यक्त्वा हि निश्चयेन, अन्यत् सर्वम् इतरत् निखिलम्, व्यलीकम् अकार्यम्, व्यलीकं विप्रियम् (अस्ति अतः) भुवि पृथिव्याम् अलीकम्, व्यलीकं स्वर्ग, कदापि जात्वपि, अनिच्छन् अनभिलषन् (अहम्) एतत् अतामि गच्छामि प्राप्नोमीति यावत्। 'अत सातत्यगमने' इत्यस्य रूपम्। 'व्यलीकं । विप्रियाकार्यवैलक्ष्येष्वपि पीडनम्' । 'अलीकं त्रिदिवे क्लीबं मिथ्यायामाप्रिये त्रिषु' इति च विश्वलोचनः ।।४८।।
___ अर्थ- विद्वानों के लिए इस साधुसमाधि को छोड़कर अन्य सब व्यलीक- अकार्य हैं, अप्रिय हैं। मैं पृथिवी पर मिथ्यास्वर्ग की इच्छा न करता हुआ इस साधुसमाधि को प्राप्त होता हूँ।।४८।।
[४९] यो मदादिं न मन्तुं मुञ्चति भुवीशो गन्तुं न मन्तुम् ।
तदूनस्तं न मन्तुं जातु स्वमिच्छामि नमन् तुम् ।। यः तदूनः (साधुसमाधिकरणविहीनः) मदादि मन्तुं न मुञ्चति (सः) मन्तुं गन्तुं न ईशः स्वं नमन् तुं मन्तु तं जातुन इच्छामि ।
यो मदादिमिति- यः तदूनः तेन साधुसमाधिकरणेन ऊनो विहीनः, मदादि गर्वादिकं, मन्तुम् अपराधं, न मुञ्चति न त्यजति (सः) मन्तुं परमेष्ठिनं, गन्तुं प्राप्तुं, न ईशः न समर्थः, स्वम् आत्मानं, नमन् नमस्कुर्वन्, तुं चौरं, तं मन्तुं मानवं, जातु कदाचित्, न इच्छामि नाभिलषामि। 'मन्तुः स्यादपराधेऽपि मानवे परमेष्ठिनि' इति विश्वलोचनः 'तुश्चौरक्रोडमुच्यते' इत्यपि च। यो गर्वादिभावमाश्रित्य साधुसमाधिं न करोति तमहं नेच्छामीति भावः ।। ४९।।
अर्थ- जो साधुसमाधि से रहित हो अहंकार आदि अपराध को नहीं छोड़ता है वह मन्तु-परमेष्ठी को प्राप्त करने में समर्थ नहीं है। स्वकीय आत्मा को नमन करता हुआ मैं उस चौरमानव-परपदार्थों को अपना मानने वाले मानव की कभी इच्छा नहीं करता ||४९।।
__ [५०] ततस्तदाप्त्यै भगतस्तिष्ठाम्यहमतिदूरं न तु भगतः । एवास्यचलन् भगतः परमपदमपीह वृषभ ! गतः ।।
(१६६)