________________
मूर्ध्नि, धृतराजराजः धृतो राजराजश्चन्द्रो येन सः ‘राजराजस्तु धनदे सार्वभौममृगाङ्कयोः' इति विश्वलोचनः। अपि यदून: येन ज्ञानोपयोगेन ऊनो रहितः अजः स्मरहरः शिवः (अज एवाभूत्) (किन्तु) राजराजः राजेश्वरः, अजः कृष्ण: 'अजः कृष्णे स्मरहरे विद्यौ छागे रघोः सुते' इति विश्वलोचनः। अनेन (ज्ञानोपयोगेन) जिनस्तीर्थकरः स्याद् भवेत्। अभीक्ष्णज्ञानोपयोगभावनाबलेन कृष्णस्तीर्थकरो भविष्यतीति भावः ।।२६।।
अर्थ- हे श्रेष्ठ मुनियों के नाथ! हे महापुरुषों में महान् ! हे जरारहित! जिनेन्द्र! शिर पर चन्द्रमा को धारण करने वाला शिव भी जिससे रहित हो अज-छाग हुआ,किन्तु राजराजेश्वर कृष्ण इस ज्ञानोपयोग से सहित हो तीर्थङ्कर होगें ।।२६।।
[२७] चञ्चलचित्तसंवरं कलयति च कुरुतेऽयं विधिसंवरम् ।
विमदमलीमसंवरं गता मुनय आहुः संवरम् ।। अयं (ज्ञानोपयोगः) विधिसंवरं कुरुते, चञ्चलचित्तसंवरं च कलयति (इति) विमदमलीमसंवरं संवरं गता मुनयः आहुः ।
चञ्चलेति- अयं (ज्ञानोपयोगः), विधिसंवरं विधीनां कर्मणां संवरं अनास्रवणं कुते, चञ्चलचित्तसंवरं चपलचेतः संवरणं च कलयति संपादयति (इतीत्थं) विमदमलीमसं विगतो विनष्टो मदमलीमसो मदमलिनं यस्य तथाभूतं वरं श्रेष्ठं संवरं जिनं भगवन्तं गताः प्राप्ताः मुनयो यतीश्वरा आहुः कथयामासुः ।।२७।।।
अर्थ- 'यह ज्ञानोपयोग, कर्मों के संवर को तथा चञ्चलचित्त के निरोध को करता है' ऐसा मद रूपी मैल से रहित उत्कृष्ट संवर को प्राप्त मुनि कहते हैं।।२७।।
[२८] ज्ञानरूपी करे दीपोऽमनोऽचलो यतेऽस्त्ययम् ।
सन्नरूपी हरेऽपापो जिनोऽवलोक्यते स्वयम् ।। हे हरे अमनः यते अयं अचलः ज्ञानरूपी दीपः करे अस्ति (चेत्) अपापः अरूपी सन् जिनः स्वयं अवलोक्यते ।
ज्ञानरूपीति- हरे! हे भगवन्! अमनः भावमनोरहित! यते साधो! अयम् एषः, अचल: स्थिरः, ज्ञानरूपी ज्ञानात्मकः दीप: प्रदीप: करे हस्ते अस्ति (चेत्) अपापः पापरहितः, अरूपी रूपरहितः सन् जिनस्तीर्थकरः स्वयं बाह्यनिमित्तमन्तरेणापि अवलोक्यते दृश्यते। ज्ञानात्मना दीपेन जनस्तीर्थकृद् भवतीति भावः ।।२८।।
अर्थ- हे हरे! हे भावमन से रहित! हे मने! यदि यह अविनाशी ज्ञानरूपी दीपक हाथ में है तो पापों से रहित एवं रूप से शून्य जिन, स्वयमेव दिखने लगता है ।।२८।।
(१५८) .