________________
[२९]
सना भुवि नायकेन प्रभातु शरोऽप्यजवाक् विनायकेन । विरतो विनायकेन संवेगेन विनाऽयकेन । ।
विन! अक! इनन ! भुवि नायकेन शरः विनायकेन अजवाक् अपि प्रभातु । विनायके विरतः स ना संवेगेन (प्रभातु) ।
सेति- हे विन! विशिष्टो नः पूज्य इति विनस्तत्सम्बुद्धौ हे विन! हे विशिष्टपूज्य ! अयक! अयते इति अयकस्तत्सम्बुद्धौ हे अयक ! हे गतिशील ! अथवा अयः शुभावहो विधिः, अय एव अयकस्तत्सम्बुद्धौ हे अयक ! इन ! स्वामिन्! न! जिन ! भुवि वसुधायां नायकेन मध्यमणिना शरो हार, विनायकेन गणधरेण अजवाक् जिनेश्वरवाणी, अपि प्रभात प्रकर्षेण शोभताम् । विनायके गुरौ विरतः विशिष्टरूपेण तत्परः विश्रान्तः गुरुभक्तिनिरत इत्यर्थः । स प्रसिद्धः ना नर, संवेगेन भवभीरुत्वलक्षणेन संवेगेन ( प्रभातु ) प्रशोभताम् । ' नकारो जिनपूज्ययो:' इति विश्वलोचनः । ' अयः शुभावहो विधि:' इत्यमरः । 'नायको नेतरि श्रेष्ठे हारमध्यमणावपि ' । 'विनायको जिने बुद्धे तार्क्ष्य हेरम्बविघ्नयो:' इति विश्वलोचनः ।। २९ ।।
'अर्थ- हे विशिष्टपूज्य ! हे गतिशील ! हे स्वामिन्! जिनेन्द्र ! जिस प्रकार पृथिवी पर नायक - मध्यमणि से हार सुशोभित होता है और विनायक - गणधर से तीर्थङ्कर की दिव्यवाणी शोभायमान होती है उसी प्रकार गणधर में लीन मनुष्य भी संवेग से शोभायमान होवे ||२९||
[३०]
मुनितात्मनि शान्तेन स्थितेनं च निशेशेन निशान्ते न । -विरवोऽपि निशान्ते नः सत्कवेः कविता निशान्तेन ।।
हे नः ! आत्मनि स्थितेन अन्तेन शान्तेन मुनिता, निशेशेन निशा, शान्तेन सत्कवेः कविता, च निशान्ते विरवः अपि (प्रभातु) ।
मुनितेति- हे नः ! हे पुरुष ! आत्मन् ! इत्यर्थः । आत्मनि शुद्धात्मस्वरूपे, स्थितेन कृतावस्थानेन, शान्तेन विगतक्षोभेण, अन्तेन स्वरूपेण ' अन्तं विशुद्धे व्याप्ते स्यादन्तो नाशे मनोहरे । स्वरूपेऽन्तं मतं क्लीबं न स्त्री प्रान्तेऽन्तिके त्रिषु ।। ' इति विश्वलोचनः । मुनिता मुनेर्भावो मुनिता यतित्वम् । निशेशेन निशाया ईशो निशेशस्तेन चन्द्रेण निशा रात्रिः, शान्तेन शान्तरसेन 'शान्तस्तु रसे दान्तेऽपि मुक्तके' इति विश्वलोचनः । सत्कवेः प्रशस्तकवेः कविता काव्यं 'च' इति समुच्चये 'नि' इति नित्यभृशाश्चर्ये वा अव्ययौ, निशान्ते निशाया अन्तो निशान्तस्तस्मिन् प्रभाते, विरवः वीनां पक्षिणां रवः शब्दः गीत
(१५६)