________________
चन्द्रेण 'मः प्रिये पुंसि मश्चन्द्रे' इति विश्वलोचनः । कुमुदं करवं, अथो जलधिर्वा सागर. इव ‘वा स्याद्विकल्पोपमयोरिवार्थेऽपि समुच्चये' इत्यमरः। वामेन वल्गुना सुंदरेणेत्यर्थः 'वल्गुप्रतीपयोमिः' इति विश्वलोचनः। यूना तरुणेन वामेव ललनेव। मे मम मनश्चित्तं च अनेन (ज्ञानोपयोगेन) मुदं हर्ष, एति प्राप्नोति ।।२४।।
अर्थ- हे निष्पाप! हे सुन्दर! हे स्वामिन्! हे जिनेन्द्र ! जिस प्रकार चन्द्रमा से कुमुद अथवा समुद्र और सुन्दर युवक से स्त्री हर्ष को प्राप्त होती है उसी प्रकार मेरा मन इस अभीक्ष्णज्ञानोपयोग से हर्ष को प्राप्त हो।।२४।।
[२५] मुनिषु मम विपाकस्य त्वं भव सखाग्निरिव भुवि पाकस्य।
यद् भवेद् विपाकस्य व्ययश्चायः सुखविपाकस्य ।। भुवि पाकस्य संखा अग्निः इव मुनिषु विपाकस्य मम त्वं (ज्ञानोपयोगः) सखा भव। यद् विपाकस्य व्ययः सुखविपाकस्य आयः च भवेत् । ..
. मुनिष्विति- भुवि पृथिव्याम्, पाकस्य वायोः सखा अग्निरिव, मुनिषु यतिष विपाकस्य विशिष्टः पाकः शिशुरिति विपाकस्तस्य बालरूपस्य अज्ञानिन इत्यर्थः अथवा विरुद्धः पाकः कर्मोदयो यस्य तस्य विपन्नस्येति यावत्। मम प्रार्थयितुः, त्वं (ज्ञानोपयोगः) सखा मित्रं भव। यद् येन कारणेन विपाकस्य दुर्गते. व्ययो विनाशः, सुखविपाकस्य सुखानुभवनस्य आयः प्राप्तिश्च भवेत्। 'पाकस्तु पवने शिशौ ।' 'विपाकः परिणामेऽपि खेदे स्वादुनि दुर्गतौ।' इति च विश्वलोचनः ।।२५।।
अर्थ- पृथिवी पर जिस प्रकार वायु का सखा अग्नि है; उसी प्रकार हे ज्ञानोपयोग! तुम मुझ अज्ञानी मुनि के सखा होओ, जिससे दुःखदायक कर्मोदय का विनाश और सुखदायक कर्मोदय की प्राप्ति हो ।।२५।।
[२६] महतां वराजराजः शिरसि यदूनोऽपि धृतराजराजः ।
श्रितो मुनिराजराज स्यादजोऽनेन राजराजः ।। मुनिराजराज! महतां वर अजर! शिरसि धृतराजराजः अपि यदूनः (ज्ञानोपयोगेन) अजः (किन्तु) राजराजः अजः (कृष्णः) अनेन (ज्ञानोपयोगेन) श्रितः स्यात् ।
महतामिति- मुनिराजराज! मुनिराजानां राजा इति मुनिराजराजस्तत्सम्बुद्धौ हे मुनिराजराज! यतीन्द्रशिरोमणे! महतां वर! महापुरुषोत्तम! अजर! जराशून्य! शिरसि
(१५७)