SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ अथो हि अनेन मया वामः शीलरथः आरूढः येन स शं गतः यमः किल स्वतः भृशं भयारूढः (अवलोक्यते)। शीलेति- अथो हि अथ निश्चयेन, अनेन मया वामः सुन्दरः शीलरथः शीलमेव रथः शीलरथः आरूढः कृतारोहणः। येन कारणेन स जगत्प्रसिद्धः शं हिंसां गतः प्राप्तः, यमः काल: किल निश्चयतः स्वतः स्वस्मादेव भृशम् अत्यर्थं भयारूढो भीतियुक्तः (अवलोक्यते) शीलस्यन्दनारूढं जनं दृष्ट्वा यमो भीत्या वेपते। 'वल्गप्रतीपयोर्वामः'। 'शः शतायुषि हिंसायां शं धमें शा तु पातरि' इति च विश्वलोचनः ।।२२।। अर्थ- अब मैंने इस सुन्दर शीलरथ पर आरोहण किया है जिससे वह हिंसक यम स्वयं ही अत्यन्त भयभीत दिखाई देता है ||२२।। [२३] यथा कल्पते मदनता रसतो मदनाहितेन मदनः । मदोऽनलतोऽपि मदनः प्रज्ञानयोगात् कामद! न! ।। हे कामद ! न! यथा रसतः मदनता, मदनाहितेन मदनः, अनलत: मदनः, कल्पते (तथा) प्रज्ञानयोगात् मदः अपि (कल्पते)। यथेति- हे कामद! कामं मनोरथं ददातीति कामदस्तत्सम्बुद्धौ हे कामद! न! जिन! यथा येन प्रकारेण, रसतः रसायनात् मदनता मदनस्य भावो मदनता धत्तूरत्वं, मदनाहितेन कामवैरिणा, मदनः कामः, अनलतः अग्नेः, मदनः सिक्थकः 'मैन' इति प्रसिद्धः, कल्पते नष्टो भवति (तथा) प्रज्ञानयोगात् प्रकृष्टं ज्ञानं प्रज्ञानं तस्य योगः तस्मात् श्रेष्ठज्ञानयोगात्, मदो गर्वः अपि (कल्पते) नष्टो भवति। 'मदनः स्मरधत्तूरवसन्तद्रुमसिक्थके' इति विश्वलोचनः ।।२३।। अर्थ- हे मनोरथ को पूर्ण करने वाले जिनेन्द्र ! जिस प्रकार रसायन से धत्तूर की मादकता, कामवैरी के द्वारा काम, और अग्नि से मैन नष्ट हो जाता है, उसी प्रकार प्रकृष्ट श्रेष्ठ ज्ञान के योग से मद-अहंकार नष्ट हो जाता है।।२३।। [२४] कुमुदमथो वा मेन जलधिर्वामा यूनेव वामेन । मुदमेति च वामेन! मनोऽनेनोऽनेन वा मे न ! ।। हे अनेनः! वाम इन न मेन कुमुदं जलधिः वा वामेन यूना वामा इव मे मनः च अनेन (ज्ञानोपयोगेन) मुदं एति। कुमुदमिति- हे अनेनः! निष्पाप! वाम! सुन्दर! इन! स्वामिन् ! न! जिन! मेन (१५६)
SR No.002457
Book TitlePanchshati
Original Sutra AuthorN/A
AuthorVidyasagar, Pannalal Sahityacharya
PublisherGyanganga
Publication Year1991
Total Pages370
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy