________________
स्तुतानीति- हे . अङ्ग! आगतानि वर्तमानानि, अनागतानि भविष्यत्कालसम्बन्धीनि; गतानि भूतकालसम्बन्धीनि च अकानि पापानि 'अकं दुःखाघयोः' इति विश्वलोचनः। हि निश्चयेन त्यक्त्वा आलोचना प्रतिक्रमणप्रत्याख्यानविधिना परिमायेत्यर्थः। यानि सता साधुना स्तुतानि स्तुतिविषयीकृतानि शुचितां निर्मलतां गतानि व्रतानि तानि सम्यक् (अहम्) अतानि गच्छानि प्राप्नुवानीत्यर्थः। 'अत सातत्यगमने' इत्यस्य लोडुत्तमपुरुषे रूपम् ।।२०।।
__ अर्थ- अङ्ग जिनेन्द्र! आगत- वर्तमान, अनागत-भविष्यत् और गतभूतकाल सम्बन्धी पापों को छोड़कर सत्पुरुषों के द्वारा स्तुत होते हुए जो शुचिता-निरतिचारवृत्ति को प्राप्त हुये हैं उन व्रतों को मैं प्राप्त होता हूं ।।२०।।
[२१] सा भातु गजगतितया सती नानेन संसृतिर्गतितया ।
सिद्धः सदा गतितया सदागतिनोषा जगति तया ।। जगति गजगतितया सा सती भातु, गतितया संसृतिः (भातु)सिद्धः तथा गतितया (भातु) सदागतिना उषा (भातु) अनेन (शीलेन व्रतेन वा) ना सदा (भातु)।
___ 'सेति- जगति लोके, गजगतितया गजस्य गतिरिव गतिर्यस्याः सा गजगतिस्तस्या भावस्तत्ता तया, सा प्रसिद्धा सती साध्वी स्त्री भातु शोभताम् । गतितया प्रगत्या चतुर्गतिगमनेनेत्यर्थः, संसृति: संसारः (भातु) सिद्धः मुक्तात्मा तया शास्त्रप्रसिद्धया गतितया गतिः ज्ञानं केवलज्ञानं तस्या भावस्तत्ता तया गतितया भातु, आत्मना साकं ज्ञानस्य तादात्म्यं वर्तते इति । अथवा तथा शास्त्रप्रसिद्धया अगतितया न विद्यते गतिर्यस्य तस्य भावः अगतिता तया गतिराहित्येन (भातु)। सदागतिना वायुना उषा प्रातर्वेला (भातु) अनेन (शीलेन व्रतेन वा) ना पुमान्, सदा सततं (भातु) 'सती साध्वीचण्डिकयोः ।' 'उषा बाणसुतायां स्यात्प्रभातेऽपि विभावरौ।' 'सदागतिर्गन्धवाहे निर्वाणेऽपि सदीश्वरे' इति च विश्वलोचनः ।।२१।।
अर्थ – संसार में वह पतिव्रता स्त्री हाथी जैसी चाल से सुशोभित हो, संसार चतुर्गतियों से सुशोभित हो, सिद्ध परमेष्ठी प्रसिद्ध केवलज्ञान से अथवा अगतिता-गति राहित्य से सुशोभित हों, प्रातःकाल वायु से सुशोभित हो और मनुष्य इस शीलव्रत से सदा सुशोभित हो ।।२१।।
[२२] शीलरथो भयाऽऽरूढो वामोऽनेन भृशं स्वतः । किल ह्यथो भयारूढो यमो येन स शं गतः ।।
(१५५)